________________
एतदपि न प्रविशेत्, तत्सङ्क्लेशनिमिक्तत्वप्रसङ्गात् । चियतंति एतद्विपरीतं अचिअत्तविपरीतं प्रविशेत् कुलं, तदनुग्रहप्रसङ्गादिति ॥७६॥
साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइया ॥७७॥
किंच-'साणीपावारपिहिय 'मिति शाणी-अतसीवल्कजा पटी, प्रावारः-प्रतीतः, कम्बलाद्युपलक्षणमेतत्, एवमादिभिः पिहितं-स्थगितं, गृहमिति वाक्यशेषः । आत्मना-स्वयं, नापवृणुयात्-नोद्घाटयेदित्यर्थः । अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात्, किमविशेषतो ? नेत्याह-अवग्रहमयाचित्वा-आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वेति ॥७७॥
विधिशेषमाहगोयरग्गपविट्ठो अ, वच्चमुत्तं न धारए ।
ओगासं फासुअं नच्चा, अणुनविअ वोसिरे ॥७८॥ 'गोयरग्ग 'त्ति-गोचराग्रप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वा-अनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसम्प्रदायादवसेयः, स चायं-"पुव्वमेव साहुणा सन्नाकाइओवओगं काऊण गोयरे पविसियव्वं, कहिंचि(वि)न कओ कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेयव्वं, जओ मुत्तनिरोहे चक्खुवघाओ हवइ, वच्चनिरोहे य जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणियं"सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥१॥" (ओघनि० ४७) अओ संघाडि (ड) यस्स सयभायणाणि समप्पिय पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरेज्जा," वित्थरओ जहा ओहनिज्जुत्तीए ॥७८॥
श्रीदशवैकालिकम् ।