________________
भाषमाणो वा गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाद् द्विविधं-द्रव्योच्चं धवलगृहवासि, भावोच्चं जात्यादियुक्तं, एवमवचमपि द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनमिति । दोषा उभयविराधना-लोकोपघातादय इति ॥७३॥
आलोयं थिग्गलं दारं, संधिं दगभवणाणि य । चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ॥७४॥
अत्रैव विधिमाह- 'आलोयंथिग्गल मिति, आ(अव)लोकंनिर्वृहकादिरूपं, थिग्गलं-चितं द्वारादि, संधि-चितं क्षत्रं, उदकभवनानि-पानीयगृहाणि चरन् भिक्षार्थं न विनिज्झाइत्ति-विनिध्यायेत्विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि, अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति ॥४॥
रन्नो गिहवईणं च, रहस्सारक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ॥५॥
किं च- "रन्नो गिहे'त्यादि राज्ञः- चक्रवर्त्यादेः, गृहपतीनांश्रेष्ठिप्रभृतीनां रहस्यस्थानानि वर्जयेदिति योगः। आरक्षकाणां चदण्डनायकादीनां, रहःस्थानं-गुह्यापवरक-मन्त्रगृहादि सङ्क्लेशकरंअसदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति दूरतः परिवर्जयेदिति ॥७५।।
पडिकुट्टकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं ॥७६॥
'पडिकुट्टकुलं ति, प्रतिकुष्टकुलं द्विविधं-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं , यावत्कथिकं-अभोज्यं एतन्न प्रविशेत्, शासनलघुत्व-प्रसङ्गात् । मामकं यत्राह गृहपतिर्मा मम कश्चिद् गृहमागच्छेत्, एतत् वर्जयेत् भण्डनादिप्रसङ्गात् । अचिअत्तकुलं-अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति कुतश्चिन्निमितान्तरात्, श्रीदशवैकालिकम् ।