________________
निंदामि गरिहामि अप्पाणं वोसिरामि । सू० ११ ।
से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव, से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं-शिरापानीयं, अवश्यायःत्रेहः, हिमं-स्त्यानोदकं, महिका-धूमरिका, करक:-कठिनोदकरुपः, हरतनुर्भुव-मुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकं-अन्तरिक्षोदकं, तथोदकानं वा कायं उदकाद्रं वा वस्त्रं, उदकाद्रता चेह गलद्विन्दुतुषाराद्यनन्तरोदितोदकभेदसन्मिश्रता, तथा सस्निग्धं वा कायं, सस्निग्धं वा वस्त्रं, अत्र स्नेहनं स्निग्धमिति, सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसन्मिश्रता, एतत्किमित्याह- 'नामुसेज्जत्ति-नामृषेत् न संस्पृशेत् नापीडयेन्न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्वा स्पर्शनमामर्षणं अतोऽन्यत्संस्पर्शनं, एवं सकृदीषद्वा पीडनमापीडनं अतोऽन्यत्प्रपीडनं, एवं सकृदीषद्वास्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनं, एवं सकृदीषद्वा तापनमातापनं विपरीतं प्रतापनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नामर्षयेत् न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।११।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अच्चि वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उजेज्जा न घटेज्जा न उज्जालेज्जा न निव्वावेज्जा अन्नं न उंजावेज्जा न घट्टावेज्जा न श्रीदशवैकालिकम् ।