________________
अदत्तं गृहृतोऽप्याया।
विमित्यादि च
उक्तं तती
वेरमणं ३ । सू० ५। ... --
अहावरे इत्यादि अथापरस्मिन् तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथाग्रामे वा नगरे वा अरण्ये वा इत्यनेन क्षेत्रपरिग्रहः प्रसिद्धान्येतानि, तथा अल्पं वा बहु वा अणु वा स्थूलं वा, चित्तवद्वा अचित्तवद्वा इत्यनेन तु द्रव्यपरिग्रहः, तत्र अल्पं मूल्यत एरण्डकाष्ठादि बहु-वज्रादि, अणु-प्रमाणतो वज्रादि, स्थूलमेरण्ड-काष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति चेतनाचेतनमित्यर्थः, 'नेव सयं अदिन्नं गेण्हेज्ज'ति, नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ।५।
उक्तं तृतीयं, महाव्रतमिदानीं चतुर्थमाह
अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविज्जा, मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ___ चउत्थे भंते ! महव्वए उवढिओमि सव्वाओ मेहुणाओ वेरमणं ४ । सू० ६ ।
अहावरे इत्यादि, अथापरस्मिन् चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमणं, सर्वं भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथादैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, 'नेव सयं मेहुणं सेवेज्जा' नैव स्वयं मैथुनं सेवे, न चान्यैर्मैथुनं सेवयामि,
३०
श्रीदशवैकालिकम् ।