________________
तसकाउत्ति पवुच्चइ । सूत्रं १ । ___'सुयं मे' इत्यादि, श्रुयते तदिति श्रुतं-प्रतिविशिष्टार्थ-प्रतिपादनफलं वाग्योगमात्रं, भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगतमिति पर्यायाः, मयेत्यात्म-परामर्शः, आयुरस्यास्तीत्यायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् !, कः कमेवमाह ?-गौतमः सुधर्मस्वामी वा, जंबूस्वामिनमिति, तेनेति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिः, सोऽस्यास्तीति भगवान्, तेन भगवता वर्द्धमान-स्वामिनेत्यर्थः, एवमिति प्रकारवचनः शब्दः, आख्यातमिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु षड्जीवनिकायिका-नामाध्ययनमस्तीति वाक्यशेषः, इह तु लोके प्रवचने वा, खलु शब्दान्नान्यतीर्थकृत्प्रवचनेषु षड्जीवनिकायिकेति पूर्ववन्नामेत्यभिधानं अध्ययनमिति पूर्ववदेव ।
इह च श्रुतं मयेत्यनेनात्मपरामर्श-नैकान्तक्षणभङ्गापोहमाहतत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च-"एगंत-खणियपक्खे गहणं चिय सव्वहा न अत्थाणं । अणुसरणसासणाई कुतो य तेलोग(०क्क) सिद्धाई ? ॥१॥"
तथा आयुष्मन्निति च प्रधानगुण-निष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवते इत्याह, तदनुकंपाप्रवृत्तेरिति, उक्तं च"आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात् । ___ 'तेन भगवता एवमाख्यात' मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतंत्र्यप्रदर्शनेन न ह्यसर्वज्ञेना-ऽनात्मवताऽन्यतस्तथाभूतात् सम्यगनिश्चित्य लोके धर्मदेशना कार्येत्येतदाह विपर्ययसंभवादिति, उक्तं च"सावज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न
श्रीदशवैकालिकम् ।