________________
ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्या एतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥२८॥
'आयावयन्ति' आतापयन्तीत्यूर्ध्वस्थानादिना आतापनां कुर्वन्ति ग्रीष्मेष्विति-उष्णकालेषु, हेमन्तेषु-शीतकालेषु अप्रावृता इतिप्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु-वर्षाकालेषु प्रतिसंलीना इत्येकाश्रयस्था भवन्ति, संयताः-साधवः सुसमाहिता-ज्ञानदर्शनादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति ॥२८॥ किञ्च
परीसहरिऊदंता, धूअमोहा जिइंदिया ।
सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥२९॥ _ 'परीसहे'ति मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः (तत्त्वा० अ० ९, ८)-क्षुत्पिपासादयः, त एव रिपवस्तुल्यधर्मत्वात् परीषहरिपवः, ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, धूतमोहा-विक्षिप्तमोहा इत्यर्थः मोहः-अज्ञानं, जितेन्द्रियाः-शब्दादिषु रागद्वेषरहिता इत्यर्थः, एवम्भूताः सर्वदुःखप्रक्षयार्थ-शारीरमानसाशेषदुःखप्रक्षयनिमित्तं प्रकामन्तिप्रवर्तन्ते महर्षयः-साधव इति ॥२९॥ इदानीमेतेषां फलमाह
दुक्कराई करित्ताणं, दुस्सहाई सहेत्तु अ । केइत्थ देवलोएसु, केइ सिझंति नीरया ॥३०॥
'दुक्करा'इति एवं दुष्कराणि कृत्वा औद्देशिकादित्यागादीनि, तथा दुस्सहानि सहित्वा आतापनादीनि, केचनात्र देवलोकेषु सौधर्मादिषु, गच्छन्तीति वाक्यशेषः, तथा केचन सिद्धयन्ति तेनैव भवेन सिद्धि प्राप्नुवन्ति, वर्तमाननिर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः, नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति ॥३०॥ ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता
श्रीदशवैकालिकम् ।