________________
'अट्ठावए' इति, अष्टापदं चेत्यष्टापदं-द्यूतं, अर्थपदं वागृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं १७, तथा 'नालिका चे'ति द्यूतविशेषलक्षणा यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं नालिकाग्रहणं, अष्टापदद्यूत-विशेषपक्षे चोभयोरिति । छत्रस्य च-लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्यालंबनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति १९ । 'तेगिच्छंति चिकित्साया भावश्चैकित्स्यंव्याधिप्रतिक्रियारूपमनाचरितं २०, उपानही पादयोरनाचरिते, पादयोरिति साभिप्रायकं न त्वापत्कल्पपरिहारार्थे उपग्रहधारणेन २१, तथा समारंभणं समारंभश्च, ज्योतिषः-अग्नेरनाचरितमिति २२, दोषास्त्वष्टापदादीनां प्रसिद्धा एव क्षुण्णा एवेति ॥२०॥ किंच
सिज्झायरपिंडं च, आसंदीपलियंकए । गिहतरनिसिज्जा य, गायस्सुव्वट्टणाणि य ॥२१॥
'सिज्जायर' इत्यादि, शय्यातरपिंडश्चानाचरितः, शय्यावसतिस्तया तरति संसारमिति शय्यातरः-साधुवसतिदाता तत्पिड: २३, आसन्दकपर्यंकावनाचरितौ एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्याऽनाचरिता गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनं, चशब्दात् पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दात्तदन्यसंस्कारपरिग्रह इति २७ ॥२१॥ तथा
गिहिणो वेयावडियं, जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥२२॥
गिहिणोत्ति गृहिणो-गृहस्थस्य वैयावृत्यमिति व्यावृत्तभावो श्रीदशवैकालिकम् ।