SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः महात्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥१॥ मया ॥३॥ दशवैकालिके टीकां विधाय यत् पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥२॥ ( लघुटीकाप्रणेतॄणां प्रशस्तिः- ) दशकालिकानुयोगात्, सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोह्मद्भक्त्याऽथवा श्रीमद्बोधकशिष्येण, श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नोद्वेगो, मयि कार्यो मनागपि ॥४॥ यस्माद् व्याख्याक्रमः प्रोक्तः सूरिणा भद्रबाहुना । आवश्यकस्य निर्युक्तौ व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो, निर्युक्तिमिश्रितः ततः । सर्वैर्व्याख्याक्रमैर्युक्तो, भणितव्यस्तृतीयकः ॥६॥ तदयं यया । प्रमादकार्यविक्षेपचेतसां क्रियया अवबोधार्थं, साधूनां तु पृथक्कृतः ॥७॥ लब्ध्वा मानुष्यकं जन्म, ज्ञात्वा सर्व्वविदां मतम् । प्रमादमोहसंमूढा, वैकल्प्यं ये नयन्ति हि ॥८॥ जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुते । संसारसागरे रौद्रे, ते भ्रमन्ति विडम्बिता: ॥९॥ ये पुनर्ज्ञानसम्यक्त्वचारित्रविहितादराः । भवाम्बुधि समुल्लङ्घ्य, ते यान्ति पदमव्ययम् ॥१०॥ ये भव्यान् प्रतिबोध्य जैनवचनैः स्याद्वादसंभूषितै श्रीदशवैकालिकम् । २२१
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy