SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ भावार्थः । एवमष्टादशं स्थानम् १८ । [१५] एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं । शेषाण्यभिधीयन्ते तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो ! इत्यामन्त्रणे मनुष्याणां पुंसां जीवितमायुः, एतदेव विशेष्यते - कुशाग्रजलबिन्दुचञ्चलं सोपक्रम - त्वादनेकोपद्रव - विषय - त्वादत्यन्तासारं तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६ । तथा बहुं च खलु भोः ! पापं कर्म्म प्रकृतं बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे, बद्धं च पापकर्म्म चारित्र - मोहनीयादि, प्रकृतं-निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धि-प्रवृत्तेः, नहि प्रभूतक्लिष्टकर्म्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिगृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७ । " " पावाणं चेत्यादि, पापानां च - अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च, खलु भोः ! कृतानां कर्म्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्याऽऽमन्त्रणे, कृतानां - मनोवाक्काययोगैरोघतो निर्वतितानां कर्मणां - ज्ञानावरणीयाद्यसातावेदनीयादीनां प्राक् पूर्वमन्यजन्मसु दुश्चरितानां प्रमाद - कषायजदुश्चरितजनितानि दुश्चरितानि कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं दुष्पराक्रान्तानां-मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वधबन्धनादीनि, तदमीषां एवंभूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति श्रीदशवैकालिकम् । २०२ -
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy