________________
तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानम् ९ ।
तथा संकल्पः तस्य वधाय भवति, संकल्पः-इष्टानिष्टप्रयोगसंप्रयोगप्राप्तिजो मानस आतङ्कस्तस्य गृहिणः, तथा चेष्टायोगात् मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति इत्येतच्चिन्तनीयमिति दशमं स्थानम् १० ।
तथा सोपक्लेशो गृहवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासोगृहाश्रमः, उपक्लेशा:-कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयः, घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारंभी कुचिन्तापरिवज्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । [११] ___तथा बन्धो गृहवासः सदा तद्धत्वनुष्ठानात्, कोशकारकीटकवत् इत्येतच्चिन्तनीयं इति त्रयोदशं स्थानं १३ । तथा मोक्षः पर्यायोऽनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्त-नीयमिति चतुर्दशं स्थानं १४ । [१२]
अत एव सावधो गृहवास इति सावद्यः-सपापः प्राणातिपातमृषावादादिप्रवृत्तेरित्येतञ्चिन्तनीयमिति पञ्च-दशं स्थानम् १५ । एवमनवद्यः पर्याय इत्यपाप इत्यर्थः, अहिंसादि-पालनात्मकत्वादेतच्चिन्तनीयमिति षोडशं स्थानम् १६ । [१३]
तथा बहुसा-धारणा गृहिणां कामभोगा इति, बहुसाधारणा:चौरराजकुलादिसामान्या गृहिणां-गृहस्थानां कामभोगाः पूर्ववत्, एतच्चिन्तनीयमिति सप्तदशं स्थानम् १७ । [१४]
तथा प्रत्येकं पुण्यपापमिति, मातापितृकलत्रादिनिमित्त-मप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं तस्य कतुरेवैतदिति श्रीदशवैकालिकम् ।
२०१