________________
सिया विसं हालहलं न मारे, - -
न यावि मुक्खो गुरुहीलणाए ॥४०५॥ सिया हुत्ति, स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धाद् असौ पावकःअग्निर्न दहेत्-न भस्मसात्कुर्यात्, आशीविषो वाभुजङ्गोवा कुपितो वा न भक्षयेत्-न खादयेत्, तथा स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलं-अतिरौद्रं न मारयेत्-न प्राणांस्त्याजयेत्, एवमेतत् कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया कृतया भवतीति ॥४०५॥ जो पव्वयं सिरसा भेत्तुमिच्छे,
सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, . एसोवमाऽऽसायणया गुरूणं ॥४०६॥
जो पव्वयंति, यः पर्वतं शिरसा-उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां वा प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदिति ॥४०६॥
अत्र विशेषमाहसिया हु सीसेण गिरिपि भिंदे,
सिया हु सीहो कुविओ न भक्खे । सिया न भिंदेज्ज व सत्तिअग्गं,
न यावि मुक्खो गुरूहीलणाए ॥४०७॥ सिया हु त्ति, स्यात्-कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयात्शिरसा उत्तमाङ्गेन गिरिमपि-पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्तयग्रे प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो १६२
श्रीदशवैकालिकम् ।