________________
परिभ्रमतीति ॥४०२॥
अत्रैव दृष्टान्तदाान्तिकयोर्महदन्तरमित्येतदाहआसीविसो वावि परं सुरुट्ठो,
किं जीवनासाउ परं नु कुज्जा ?। आयरिअपाया पुण अप्पसन्ना,
अबोहिआसायण नत्थि मुक्खो ॥४०३॥ आसीत्ति, आशीविषश्चापि-सर्पोऽपि परं सुरुष्टः सन्-सुक्रुद्धः सन् किं जीवितनाशात्मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनया अनुग्रहेऽप्रवृत्ताः, किं कुर्वन्तीत्याहअबोधि-निमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमतश्चाशातनया गुरोर्नास्ति मोक्षः, अबोधिसन्तानसम्बन्धेनानन्तसंसारिकत्वादिति ॥४०॥ जो पावगं जलिअमवक्कमिज्जा,
आसीविसं वावि हु कोवइज्जा। जो वा विसं खायइ जीविअट्ठी,
एसोवमाऽऽसायणया गुरूणं ॥४०४॥ किंच-जो पावगत्ति, यः पावकं-अग्रिं ज्वलितं सन्तं अपक्रामेत्अवष्टभ्य तिष्ठति, आशीविषं वापि हि-भुजङ्गमं वापि हि कोपयेत्रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी-जीवितुकामः एषोपमा-अपायप्राप्तिं प्रति एतदुपमानं, आशातनया कृतया गुरूणां सम्बन्धिन्या, तद्वदपायो भवतीति ॥४०४॥
अत्र विशेषमाहसिया हु से पावय नो डहिज्जा,
___ आसीविसो वा कुविओ न भक्खे ।
श्रीदशवैकालिकम् ।
१६१