________________
|| अथ वस्त्रैषणाध्ययनम् ।। पञ्चममारभ्यते, इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यस्याध्ययनस्यादिसूत्रम -
__से भि. अभिकंखिज्जा बत्थं एसित्तए, से जं पुणवत्थं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वाखोमियं वा तूलकवा, तहप्पगारंवत्थं वाजे निग्गंथे तरुणेज़गवं वलवं अप्पायंके थिरसंघयणेसे एगवत्थं धारिज्जानोबीयं,जा निग्गंधीसा चतारि संघाडीओ धारिज्जा, एगं दुहत्थवित्थारं दो तिहत्थवित्थाराओ एगं चउहत्थवित्थारं, तहप्पगारेहिंवत्येहिं असंधिज्जमाणेहि, अह पच्छाएगमेगं संसिविज्जा । सूत्र-१४१।।
___स भिक्षुरभिकाझेद वस्त्रमेषितुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात् तद्यथा-जंगियं जंगमोष्ट्रायूर्णानिष्पन्नं वा, भंगियं नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं वा, साणयं सणवल्कलनिष्पन्नं वा, पोत्तगं ताड्यादिपत्रसङ्घातनिष्पन्नं वा, खोमियं कासिकं वा, तूलकृतम् अर्कादितूलनिष्पन्नं वा, तथाप्रकारं वस्त्रं वा यो निर्ग्रन्थस्तरुणो वा युवा वा बलवान् अल्पातङ्कः - नीरोगी स्थिरसंहननः स एकं वस्त्रं धारयेद् नो द्वितीयं, यदपरमाचार्यादिकृते विभति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि ढ्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेद, न तत्रापवादोऽस्ति या निर्ग्रन्थी सा चतस्रः संघाटिका धारयेद, तद्यथा-एकां द्विहस्तविस्ताराम द्वेत्रिहस्तविस्तारे, एकां चतुर्हस्तविस्ताराम् द्विहस्तपरिमाणां प्रतिश्रये तिष्ठन्ती प्रावृणोति, त्रिहस्तपरिमाणयोरेकामुज्ज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भू मिगमनावसरे, तथा चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति। तथाप्रकाराणां वस्त्राणाम् असंधीयमानानामलाभे अथ पश्चादेकमेकेन सार्धं सीव्येत् ।।१४१।।
किञ्च
से भि. परं अद्धजोयणमेराए वत्थपडिया. नो अभिसंधारिज्ज गमणाए । सूत्र१४२।।
स भिक्षुः परं अर्झयोजनमर्यादायाः,- अर्धयोजनात् परतो वस्त्रप्रतिज्ञया नो अभिसन्धारयेद् गमनाय ||१४२।।
मूलगुणप्रतिषेधमधिकृत्याह -
से भि. से जं अस्सिंपडियाए एगं साहम्मियं समुहिस्स पाणाई जहा पिंजेसणाए भाणियव्वं । एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण. तहेव पुरिसंतरकडा जहा पिंडेसणाए ।।सूत्र-१४३।।
स भिक्षुस्तत्र यत् पुनरेवं जानीयात्, तद्यथा अस्वप्रतिज्ञया न विद्यते स्वं द्रव्यं यस्य सोऽस्वो
आचारागसूत्रम्
७८