________________
प्रयोजने एवं वदेत्, तद्यथा- जातिमन्तः अशोकादय इति वा, दीर्घा नालिकेर्यादयो वृत्ता नन्दिवृक्षादय इति वा, महालया वटवृक्षादय इति वा, प्रजातशाखा इति वा, विटपिनः शाखावन्त इति वा, प्रसादनीया इति वा, यावत् प्रतिरूपा इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत । स भिक्षुर्वा २ बहुसंभूतफलान् आम्रान् प्रेक्ष्य एवं वदेत्, तद्यथा - असंस्तृता: असमर्था इति वा बहुनिर्वर्तितफला इति वा, बहुसंभूता इति वा, भूतरूपाः - भूतानि रूपाणि कोमलफलरूपाणि येषु ते तथा इति वा, एतत्प्रकारां भाषामसावद्यां भाषेत । स बहुसंभूता ओषधीः प्रेक्ष्य तथापि ता नैवं वदेत् तद्यथा पक्वा इति वा, नीला इति वा, छविमत्य इति वा लाजयोग्याः पृथुकयोग्या वा रोपणयोग्या इति वा, भर्जनयोग्या इति वा, बहुखाद्या इति वा, एतत्प्रकारां सावद्यां भाषां नो भाषेत । स बहुसंभूता ओषधीः प्रेक्ष्य तथापि एवं वदेत्, तद्यथारूढा इति वा, बहुसंभूता इति वा, स्थिरा इति वा, उच्छ्रिता इति वा, गर्भिता इति वा प्रसूता इति वा, ससारा इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत ।।
किञ्च -
-
-
भिक्खू बा २ तहप्पगाराई सद्दाई सुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजहासुसद्देति वा दुसदेत्ति वा, एयप्पगारं भासं सावज्जं नो भासिज्जा से भि. तहावि ताई एवं वइज्जा, तंजहा-सुसद्दं सुसद्दित्ति वा दुसरं दुसद्दिति वा, एयप्पगारं असावज्जं जाव भासिज्जा, एवं रुबाइं किण्हेत्ति वा ५ गंधाइं सुरभिगंधित्ति वा २ रसाइं तित्ताणि वा ५ फासाइं कक्खाणि वा ८ ।। सूत्र - १३९ ।।
स भिक्षुर्वा २ तथाप्रकारान् शब्दान् श्रृणुयात् तथापि एतान् नैवं वदेत्, तद्यथा - सुशब्दः माङ्गलिक इति वा, दुःशब्दः अमाङ्गलिकः इति वा, एतत्प्रकारां भाषां सावद्यां नो भाषेत । स भिक्षुस्तथापि तान् एवं वदेत्, तद्यथा-सुशब्दं सुशब्द इति वा, दुःशब्दं दुःशब्द इति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् भाषेत, एवं रूपाणि कृष्ण इति वा ५ गन्धौ सुरभिगन्ध इति वा २ रसास्तिक्तादयो वा ५ स्पर्शाः कर्कशादयो वा ८ ।।१३९।।
किञ्च
सेभिक्खू बा २ बंता कोहं च माणं च मायं च लोभं च अणुवीह निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ । एवं खलु. सया जत्ति बेमि । ।सू० १४० ।।
आचाराङ्गसूत्रम्
।। भाषाऽध्ययनं चतुर्थम् ।।
स भिक्षुर्वा २ वान्त्वा क्रोधं च मानं च मायां च लोभं च अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी समित्या समतया वा संयतो भाषां भाषेत । एवं खलु सदा यतस्व इति ब्रवीमि ।।१४० ।।
।। इति भाषाऽध्ययनं चतुर्थम् ।।
७७