________________
तं नो दिज्जा निक्खविज्जा, नो वंदिय २ जाइज्जा, नो अंजलिं कट्टु जाइज्जा, नो कलुणपडियाए जाइज्जा, धम्मियाए जाइज्जा, तुसिणीयभावेण वा उबेहिज्जा । ते णं आमोसगा सयं करणिज्जंति कट्ट अक्कोसंति बा जाव उद्दविति वा वत्थं वा ४ अच्छिंदिज्ज वा जाव परिट्ठविज्ज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्तु बूया - आउसंतो गाहावई ! एए खलु आमोसगा उवगरणवडियाए सयं करणिज्जंति कट्टु अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा बायं वा नो पुरओ कट्टु बिहरिज्जा, अप्पुस्सुए जाब समाहीए तओ संजयामेव गामा. वूइ॰ । एयं खलु. सया इ. तिबेमि ।। सूत्र - १३१ ।। समाप्तमीर्याख्यं तृतीयमध्ययनम् ।।
स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र आमोषकाः सम्पिण्डिता गच्छेयुः, ते च आमोषका एवं वदेयुः - आयुष्मन् श्रमण ! आहर एतद्वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा देहि, निक्षिप, तन्नो दद्याद् नो निक्षिपेद् नो वंदित्वा २ याचेत नोऽञ्जलिं कृत्वा याचेत नो करुणप्रतिज्ञया याचेत - नो दीनं याचेत तूष्णीकभावेन वा उपेक्षेत । ते च आमोषकाः स्वकं करणीयमिति कृत्वाऽऽक्रोशन्ति वा यावद् उपद्रवन्ति वा वस्त्रं वाऽऽच्छिन्द्युर्वा यावत् परिष्ठापयेयुः त्यजेयुर्वा तन्नो ग्रामसंसार्यं कुर्यात् - तेषां चेष्टितं न ग्रामे कथनीयम् नो राजसंसार्यं कुर्याद्, नो परं गृहस्थमुपसङ्क्रम्य ब्रूयाद् - आयुष्मन् गृहपते! एते खलु आमोषका उपकरणप्रतिज्ञया स्वकं करणीयमिति कृत्वाऽऽक्रोशन्ति वा यावत् परिष्ठापयन्ति वा, एतत्प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेद्, अल्पोत्सुको यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् । एवं खलु सदा यतस्व इति ब्रवीमि ।।१३१।। अत्राऽध्ययनेऽयं विशेषः - उपस्थितेऽपि शरीरोपध्यादिविनाशे साधुः शुभाऽध्यवसायः सन् स्थिरतां भजेत ।
।। इति समाप्तमीर्याख्यं तृतीयमध्ययनम् ।।
आचाराङ्गसूत्रम्
-
७०