________________
अंतरा से वासे सिया पाणेसुवा पणएसुवा बीएसुवा हरि. उव. मट्टियाए वा अद्धित्थाए, अह भिक्खू तह. अणेगाह. जाव नो पव., तओ सं. गा. दू. ।।सूत्र-११७।। ....
स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र विहम् अटवीप्रायो मार्गः स्यात्, स यत्पुनर्विहं जानीयात, तद्यथा- एकाहेन वा ट्यहेन वा त्र्यहेण वा चतुरहेण वा पञ्चाहेन वा प्रापणीयं वा न प्रापणीयं वा तथाप्रकारं विहम् अनेकाहगमनीयं बहुदिनगमनीयं सति लाढे सत्यन्यस्मिन् यापनीये विहारस्थाने विहारे तेन विहेन विहारप्रतिज्ञया नो प्रतिपद्येत यावद् गमनाय, केवली ब्रूयाद् - आदानमेतद् - अन्तरा तत्र वृष्टिः स्यात् तथा च सत्सु प्राणिषु वा पनकेषु वा बीजेषु वा हरितेषु वा उदके वा मृत्तिकायां वा अविध्वस्तायाम् अपरिणतायां संयमाऽऽत्मविराधने स्यातामिति, अथ भिक्षुर्यत् पुनर्जानीयात्, तद्यथा- तथाप्रकारं विहम् अनेकाहगमनीयं यावन्नो प्रपद्येत, ततः संयत एव ग्रामानुग्राम द्रवेत् ।।११७।।
साम्प्रतं नौगमनविधिमधिकृत्याह
से भिक्खु २ गामा दूइज्जिज्जा. अंतरा से नावासंतारिने उदए सिया, से जंपुण नावं जाणिज्जा असंजए अभिक्खुपडियाए किणिज्ज वा पामिच्चेज्ज वा नावाए वा नावं परिणाम कट्ट थलाओवा नावं जलंसि ओगाहिज्जाजलाओवा नावंथलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उबुगामिणिं वा अहेगा. तिरियगामि. परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुज्जतरे वा नो दूलहिज्जा गमणाए। सेभिक्खूवा २ पुब्बामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणिता से तमायाए एगंतमवक्कमिज्जा २ भण्डगंपग्लेिहिज्जा २ एगओ भोयणभंडगं करिज्जा २ससीसोवरियं कायं पाए पमज्जिज्जा सागारं भत्तं पच्चक्खाइज्जा, एगं पायंजले किच्चा एगं पायं थले किच्चा तओ सं. नावं दूलहिज्जा २ |सूत्र-११८।।
सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन यत्पुनरेवं जानीयात् - अन्तरा तत्र नौसन्तार्यमुदकं स्यात्, स यां पुनर्नावं चैवंभूतां जानीयात् तद्यथा - असंयतश्च तां भिक्षुप्रतिज्ञया क्रीणीयाद् वा उच्छिन्द्याद् वा नावा वा नावं परिणामं कृत्वा परिवर्तयित्वा स्थलाद वा जलेऽवगाहयेत, जलाद्वा नावं स्थले उत्कर्षत, पूर्णां वा नावमुत्सिचेत्, सन्नां वा नावमुत्प्लावयेद उत्खनेत तथाप्रकारां नावमूर्ध्वगामिनी श्रोतःप्रतिकूलगामिनी वाऽधोगामिनी श्रोतोऽमुकूलगामिनी तिर्यग्गामिनीम् एकस्मात्तटादपरतटगामिनी परं योजनमर्यादाया अर्धयोजनमर्यादाया अल्पतरे अनुज्ञाप्य वा भूयस्तरे योजनात् परेण उदके नाऽऽरोहेद् गमनाय । स भिक्षुर्वा २ पूर्वमेव तिरीश्चनसंपातिमां नावं जानीयात्, अनेन ऊर्ध्वाऽधोगामिन्योनिषेधः संभाव्यते ज्ञात्वा स तं गृहस्थम् आदाय अनुज्ञाप्य एकान्तम् अपक्राम्येद् अपक्रम्य च भाण्डकं प्रत्युपेक्ष्य एकतो भोजनभाण्डकं कुर्यात् कृत्वा सशीर्षोपरिकं कायं पादौ च प्रमृज्यावप्रमृज्य च साकारं भक्तं प्रत्याचक्षीत् ‘एगो मे सासओ अप्पा' इत्यादिना उपकरणशरीरादि व्युत्सृजेत्। इयं यतनाऽत्र - यत्र नौसंतार्यं ततः प्रदेशात् यदि द्वाभ्यां योजनाभ्यां परिरयेण स्थलपथेन गम्यते
आचारागसूत्रम्
६०