________________
पिंजेसणा ७। इच्चेयाओ सत पिंडेसणाओ। अहावराओ सत्त पाणेसणाओ, तत्थ खल इमा पठमा पाणेसणा-असंसट्टे हत्थे असंसट्टे मते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणतं, से भिक्खू वा. से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोवगं वा ६, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पतिगाहिज्जा ।।सू.६२।। • अथ भिक्षुर्जानीयात् सप्त पिण्डैषणाः सप्त पानैषणाश्चेति, कास्ता इत्याशङ्कयाह तद्यथा - असंसृष्टा (१) संसृष्टा (२) उद्धृता (३) अल्पलेपा (४) अवगृहीता (५) प्रगृहीता (६) उज्झितधर्मा (७) गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति। तत्र खलु प्रथमा पिण्डैषणा-असंसृष्ट: अखरण्टितो हस्तः असंसृष्टं मात्रं दादिभाजनम्, तथाप्रकारेण असंसृष्टेन हस्तेन वा मात्रेण वा अशनं वा ४ स्वयं याचेत् परो वा तस्मै दद्यात्प्रासुकमिति प्रतिगृह्णीयात्, द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथापि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्तीति प्रथमा पिण्डैषणा ||१।। अथापरा द्वितीया संसृष्ट खरण्टितो हस्तः संसृष्टं मात्रं, तथैव द्वितीयापिण्डैषणा ।।२।। अथापरा तृतीया पिण्डैषणा-इह खलु प्राच्या पूर्वस्यां दिशि वा ४ सन्ति एके श्राद्धास्ते चामी भवन्ति, तद्यथा-गृहपतिर्वा यावत् कर्मकरी वा, तेषां च अन्यतरेषु विरूपरूपेषु भाजनजातेषु उपनिक्षिप्तपूर्व अशनादि स्यात, तद्यथास्थाले वा पिठरे वा शारके शरिकाभिः तृणविशेषैः कृते सूर्पादौ वा परके वंशनिष्पन्नछब्बकादौ वा वरके मण्यादिमहार्घमूल्ये वा अथ पुनरेवं जानीयात् - असंसृष्टो हस्तः संसृष्टं मात्रं, संसृष्टो वा हस्तः असंसृष्टं मात्रम्, स च पतद्ग्रहधारी पात्रधारी स्यात् पाणिपतद्ग्रही वा, सपूर्वमेव दृष्ट्वा ब्रूयात्, तद्यथा-आयुष्मन् ! इति वा २ एतेन त्वं असंसृष्टेन हस्तेन संसृष्टेन मात्रेण संसृष्टेन वा हस्तेन असंसृष्टेन मात्रेण अस्मिन पतद्ग्रहे वा पाणौ वा निहत्य पृथक् कृत्वा उच्चित्य देहि, तथाप्रकारं भोजनजातं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकं प्रतिगृह्णीयात्, अत्र च संसृष्टासंसृष्टनिरवशेषसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टः हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति तृतीया पिण्डैषणा ||३|| अथापरा चतुर्थी पिण्डैषणा - स भिक्षुर्वा यत्पुनरेवं जानीयात्, तद्यथा-पृथुकं वा यावत् शालिप्रलम्बं भुग्नशाल्यादि वा स्वयं वा यावत् प्रतिगृह्णीयात, तुषादि त्यजनीयमित्यल्पलेपा चतुर्थी पिण्डैषणा ||४||अथापरा पञ्चमी पिण्डैषणा - स भिक्षुर्वा २ अवगृहीतमेव भोक्तुकामस्य उपहृतमेव भोजनजातं जानीयात्, तद्यथा- शरावे वा डिण्डिमे कांस्यभाजने वा कोशके पिधानके वा, अथ पुनरेवं जानीयात्, तद्यथा - कदाचिद् दात्रा पूर्वमेवोदकेन पाणिर्वा धौतः स्यात्, तथा च निषिद्धं गृहणं, अथ पुनरेवं जानीयात् - बहुपर्यापन्नः परिणतः पाण्योः उदकलेपः, तथाप्रकारम् अशनं वा ४ स्वयं यावत् प्रतिगृह्णीयात्, पञ्चमी पिण्डैषणा ।।५।। अथापरा षष्ठी पिण्डैषणा - स भिक्षुर्वा २ प्रगृहीतमेव पिठरकादेरुद्धृत्य चट्टकादिनोत्क्षिप्तम् भोजनजातं जानीयात्, यच्च स्वार्थं प्रगृहीतं, यच्च परार्थं
आचारागसूत्रम्
३७