________________
मांसं वा मत्स्यं वा बहुकण्टकं तथाप्रकारं बह्वस्थिकं वा मांसं लाभे सति यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा पुनरेवं जानीयात् तद्यथा- स्यात् परो बह्वस्थिकेन मांसेन वा बहुकण्टकेन मत्स्येन वा उपनिमन्त्रयेत् तथाहि - आयुष्मन् ! श्रमण ! अभिकाङ्क्षसे बह्वस्थिकं मांसं वा बहुकण्टकं मत्स्यं वा प्रतिगृहीतुम् ? एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स पूर्वमेव आलोकयेद्, दृष्ट्वा चैवं वदेत्- आयुष्मन् ! इति वा २ न खलु मे कल्पते बहु. प्रतिगृहीतुं, अभिकाङ्क्षसे मह्यं दातुं यावत् तावत् पुद्गलं देहि, मा च अस्थिकानि, अथ तस्यैवं वदतः परः प्रविश्य अन्तःपतद्ग्रहं काष्ठच्छव्बकादौ बहु, परिभाज्य निहृत्य पृथक् कृत्वा दद्यात्, तथाप्रकारं पतद्ग्रहं परहस्ते वा परपात्रे वा अप्रासुकं नो प्रतिगृह्णीयात् । अथ कदाचित् प्रतिगृहीतं स्यात् तं निधाय व्रजेत्, न अनिधाय व्रजेत् । स तमादाय एकान्तम् अपक्राम्येत्, अपक्रम्य च अथ आरामे वा अथ उपाश्रये वा अल्पाण्डे यावद् अल्पसन्तानके मांसकं मत्स्यकं बाह्यपरिभोगेन भुक्त्वा अस्थिकानि कण्टकान् च गृहीत्वा अथ तं परिष्ठाप्यविशेषमादाय एकान्तम् अपक्राम्येत्, अपक्रम्य च अथ ध्यामस्थण्डिले वा यावत् प्रमृज्य प्रमृज्य परिष्ठापयेत् ।। ५८ ।
किञ्च -
से भिक्खू, सिया से परो अभिहट्टु अंतो परिग्गहे बिलं बा लोणं उन्मियं वा लोणं परिभाइत्ता नीहट्टु वलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि. १ | से आहच्च पडिगहिए सिया तं च नाइदूरगए जाणिज्जा से तमायाए तत्थ गच्छिज्जा २ पुब्बामेव आलोइज्जा आउसोत्ति वा २ इमं किं ते जाणया विन्नं उयाहु अजाणया?, सेय भणिज्जा - नो खलु मे जाणया विन्नं, अजाणया विन्नं कामं खलु आउसो ! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा णं, तं परेहिं समणुन्नायं समणुसट्टं तओ संजयामेब भुंजिज्ज वापीइज्जा वा ३ | जंच नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्य साहम्मिया जहेब बहुपरियावन्नं कीरइ तहेब कायव्वं सिया, एवं खलु । ।सूत्र- ५९ ।।
पिण्डैषणायां दशमोद्देशकः समाप्तः
स भिक्षुर्वा २ गृहादौ प्रविष्टः, तस्य च स्यात् अथ ग्लानाद्यर्थं खण्डादियाचने सति परः गृहस्थः अभिहृत्य अन्तःप्रविश्य अन्तः पतद्गृहं काष्ठच्छब्बकादौ बिडं वा लवणं उद्भिद्वा लवणं परिभाज्य निहृत्य अंशं गृहीत्वा दद्यात्, तथाप्रकारं पतद्ग्रहं परहस्ते वा परपात्रे वा अप्रासुकं नो प्रतिगृह्णीयात्, अथ कदाचित् प्रतिगृहीतं स्यात्, तं च दातारं नातिदूरगतं जानीयात् तदा स तद् लवणादिकं आदाय तत्र गच्छेद् गत्वा च पूर्वमेव आलोकयेद् - दर्शयेद् ब्रूयाच्च आयुष्मन् ! वा २ इदं किं त्वया जानता दत्तम् उताजानता ? स च भणेत् - न खलु मया जानता दत्तं, कामं खलु आयुष्मन् ! इदानीं निसृजामि, त्वं भुङ्क्ष्वम् वा परिभाजयत वाऽऽर्षत्वाद् वचनव्यत्ययः, तद् एवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं
आचाराङ्गसूत्रम्
३४