________________
आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा मा उवकरेहि, मा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्ट वलइज्जा तहप्पगारं असणं वा अफासुयं ।।सूत्र-५०।। ....
स भिक्षुर्वा २ वसन वा ग्रामानुग्रामं द्रवन विहरन् वा सयत् पुनरेवं जानीयात् - ग्रामं वा यावद् राजधानी वाऽत्र खलु ग्रामे वा राजधान्यां वा सन्ति कस्यचिद् भिक्षोः पुरःसंस्तुता मातापितृसम्बन्धिनो वा पश्चात्संस्तुता श्वसुरप्रभृतयो वा परिवसन्ति, तद्यथा-गृहपतिर्वा यावत् कर्मकरी वा तथाप्रकाराणि कुलानि नो पूर्वमेव भक्तार्थं वा पानार्थं वा निष्क्रामेद वा प्रविशेद वा २, केवली ब्रूयात् - आदानमेतत्, पूर्व प्रेक्ष्य तस्य - भिक्षोः कृते पर:-गृहस्थ: भिक्षोः अशनं वा ४ उपकुर्याद उपकरणजातं ढौकयेद वा उपस्कुर्याद्वा पचेद्वा, अथ तं व्यतिकरं ज्ञात्वा भिक्षूणां पूर्वोपदिष्टा प्रतिज्ञा ४ इत्यादि, यन्नो तथाप्रकाराणि कुलानि पूर्वमेव भक्तार्थं वा पानार्थं वा प्रविशेद्वा निष्क्रामेद्वा २, सतमादाय एतद ज्ञात्वा एकान्तमपक्रामयेद् अपक्रम्य च अनापातासंलोके तिष्ठेत्, स तत्र कालेन अनुप्रविशेद, अनुप्रविश्य च तत्र इतरेतरेभ्यः स्वजनरहितेभ्यः कुलेभ्यः सामुदानिकं भैक्षम् एषणीयं वैषिकं पिण्डपातम् अन्विष्य आहारम् आहारयेद, स्यात् स परः-गृहस्थः कालेनाऽनुप्रविष्टस्याऽपि भिक्षोः कृते आधाकर्मिकम् अशनं वा उपकुर्याद् वा उपस्कुर्याद्वा तच्च कश्चित् साधुः तृष्णीकः मूक उत्प्रेक्षेत, किमर्थमित्याह - आहृतमेव प्रत्याख्यास्यामि निषेधिष्मामीति एवं स भिक्षुर्मातृस्थानं मायां संस्पृशेद, नैवं कुर्यात् स पूर्वमेव आलोकयेत्! दृष्ट्वा चाहारं संस्क्रियमाणमेव वदेत्-यथा भो आयुष्मन्! इति वा भगिनि! इति वा नो खलु मे कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा, मा उपकुरु, मा उपस्कुरु पच, अथ तस्य भिक्षोरेवं वदतः परो-गृहस्थ आधाकर्मिकम् अशनं वा ४ उपस्कार्य पक्त्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकम् अनेषणीयं यावन्नो प्रतिगृह्णीयात्। उद्गमादिदोषा अधस्तात् प्रदर्शिता एव । उत्पादनादिदोषाश्चामी - (१) धात्रीपिण्डः (२) दूतीपिण्डः (३) निमित्तपिण्डः (४) आजीविकापिण्डः (५) वनीपकपिण्डः (६) चिकित्सापिण्डः (७) क्रोध-(८) मान (९) माया - (१०) लोभपिण्डः (११) पूर्व-पश्चात् संस्तवपिण्डः (१२) विद्यापिण्डः (१३) मन्त्रपिण्डः (१४) चूर्णपिण्डः (१५) योगपिण्डः (१६) मूलपिण्डः । ग्रासैषणादोषाश्चामी - (१) संयोजनादोषः (२) प्रमाणदोषः (३) अङ्गारदोषः (४) - धूम्रदोषः (५) कारणदोषः एवं दोषरहितः सन्नाहारमाहारयेदिति ।।५०।। किञ्च -
सेभिक्खू वा. से जं. मंसंवा मच्छंवा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खजिज्जमाणं पेहाए नो खलु २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए सूत्र-५१।।
स भिक्षुर्वा यदि पुनरेवं जानीयात् तद्यथा - मांसं वा मत्स्यं वा भृज्यमानं प्रेक्ष्य तैलाऽपूपं वा आदेशार्थं प्राघूर्णकार्थं उपस्क्रियमाणं प्रेक्ष्य नो शीघ्रं २ उपसंक्रम्य अवभाषेत याचेत, अन्यत्र
आचारागसूत्रम्