________________
अणायाणभंडमत्तनिक्खेवणासमिए, केवली बूया. आयाणभंडमत्तनिक्खेवणाअसमिए से निग्गंथे पाणारं भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा जाव उद्दविज्ज बा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था
भावणा ४ ।
अहावरा पंचमा भावणा - आलोइयपाणभोयणभोई से निग्गंथे, नो अणालोइयपाणभोयणभोई। केवली बूया., अणालोइयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अभिहणिज्ज वा जाव उद्दविज्ज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे, नो अणालोइयपाणभोयणभोइत्ति पंचमा भावणा ५ ।
एयावता महव्वए सम्मं काएण फासिए पालिए तीरिए किट्टिए अवट्ठिए आणाए आराहिए यावि भवइ । पढमे भंते! महव्वए पाणाइवायाओ वेरमणं ।
प्रथमं भगवन्! महाव्रतं प्रत्याख्यामि सर्वं प्राणातिपातं, अथ सूक्ष्मम् कीटिकादिकं वा बादरं - गजाश्वादिकं वा त्रसं वा स्थावरं वा नैव स्वयं प्राणातिपातं करोमि, नैवाऽन्यैः प्राणातिपातं कारयामि, प्राणातिपातं कुर्वतोऽपि अन्यान् न समनुजानामि यावज्जीवतया त्रिविधं त्रिविधेन मनसा वचसा कायेन, तस्य - प्राणातिपातस्य भदन्त ! प्रतिक्राम्यामि निन्दामि - आत्मसाक्षिकम्, गर्हामि - परसाक्षिकम्, आत्मानम् - अतीतप्राणातिपातक्रियाकारिणं व्युत्सृजामि तस्य- प्रथममहाव्रतस्येमा, पञ्च भावना भवन्ति, तत्रेयं प्रथमा भावना - ईर्यासमितः स निर्ग्रन्थो भवेद् न त्वनीर्यासमित इति, यतः केवली ब्रूयात्- कर्मोपादानमेतद्, अनीर्यासमितः स निर्ग्रन्थः प्राणिनो भूतान् जीवान् सत्त्वानभिहन्याद् वा वर्त्तयेद् - अन्यत्र पातयेद्वा, परितापयेद् वा श्लेषयेद् - घर्षयेद्वा, अपद्रापयेद्वा, अत ईर्यासमितः स निर्ग्रन्थो भवेद्, नाऽनीर्यासमित इति प्रथमा भावना || १ ||
अथाऽपरा द्वितीया भावना यो मनः परिजानाति स निर्ग्रन्थः । यच्च मनः पापकं सावद्यं सक्रियमाश्रवकरं छेदकरं भेदकरमधिकरणिकं प्रदोषिकं परितापिकं प्राणातिपातिकं भूतोपघातिकं तथाप्रकारं मनो न प्रधारयेद् गमनाय । यो मनः परिजानाति स निर्ग्रन्थः । यच्च मनः अपापकं यावदभूतोपघातिकं तथाप्रकारं मनो धारयेद् गमनायेति द्वितीया भावना ||२॥
-
अथाऽपरा तृतीया भावना यो वाचं परिजानाति स निर्ग्रन्थः । या च वाक् पापिका सावद्या सक्रिया यावद् भूतोपघातिका, तथाप्रकारां वाचं नोच्चारयेत् । यो वाचं परिजानाति स निर्ग्रन्थः । या च वागपापिका यावदभूतोपघातिका तां वाचमुच्चारयेदिति तृतीया भावना || ३ ||
-
अथाऽपरा चतुर्थी भावना - य आदानभाण्डमात्रनिक्षेपणासमितः- भाण्डमात्राऽऽदाननिक्षेपणासमितः, स निर्ग्रन्थः, नाऽनादानभाण्डमात्रनिक्षेपणासमितो भवेद्, यतः केवली ब्रूयात् कर्मोपादानमेतत्, तथाहि - आदानभाण्डमात्रनिक्षेपणाऽसमितः स निर्ग्रन्थः प्राणिनो भूतान् जीवान् सत्त्वानभिहत्त्याद् वा यावदपद्रावयेद्वा, तस्मादादानभाण्डमात्रनिक्षेपणासमितः स निर्ग्रन्थो भवेद् न तु आदानभाण्डमात्रनिक्षेपणाऽसमित इति चतुर्थी भावना ||४||
आचाराङ्गसूत्रम्
१२५
-