________________
योऽसौ ग्रीष्मस्य चतुर्थो मासः, अष्टमः पक्षः, आषाढशुद्धस्तस्याऽऽषाढशुद्धस्य षष्ठीपक्षे - षष्ठी तिथिस्तस्याः पश्चार्धरात्र्यां हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति महाविजयसिद्धार्थपुष्पोत्तरवरपुण्डरीकदिक्स्वस्तिकवर्धमानाद् महाविमानाद् विंशतिं सागरोपमाणामायुः पालयित्वा आयुः क्षये स्थितिक्षये भवक्षये - देवभवक्षये सति च्युतः, च्युत्वा इह खलु जम्बुद्वीपे द्वीपे भारते वर्षे - भरतक्षेत्रे दक्षिणार्धभरते दक्षिणब्राह्मणकुण्डपुरसन्निवेशे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः सिंहोद्भवभूतेन - सिंहशावकतुल्यपराक्रमशालिना आत्मना कुक्षौ गर्भं व्युत्क्रान्तः - गर्भतयोत्पन्नः ।
समणे भगवं महावीरे तिन्नाणोबगए यावि हुत्था । चइस्सामित्ति जाणइ चुएमित्ति जाणs चयमाणे न याणेइ, सुहमे णं से काले पत्ते । तओ णं समणे भगवं महावीरे त्रियाणुकंपएणं देवेणं जीयमेयंतिकट्टु जे से वासाणं तच्चे मासे पंचमे पक्खे आयोसबहुले तस्स णं आयोसबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइंविएहिं बइक्कंतेहिं तेसीइमस्स राइदियस्स परियाए बट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए बासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करिता सुभाणं पुग्गलाणं पक्खेवं करिता कुच्छिंसि गन्धं साहरइ । जेवि य से तिसलाए खत्तियाणीए कुच्छिंसि गब्भे तंपि य वाहिणमाहणकुंडपुरसंनिवेसंसि उस. को. देवा. जालंधरायणगुत्ताए कुच्छिंसि गन्धं साहरइ । समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था, साहरिज्जिसामित्ति जाणइ साहरिज्जमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो ! ।
श्रमणो भगवान् महावीरस्त्रिज्ञानोपगत आसीत् । च्योष्ये इति जानाति, च्युतोस्मीति जानाति, च्यवमानो न जानाति, यतः सूक्ष्मोऽसौ च्यवनस्य कालः प्रज्ञप्तः एकादिसमयप्रमाणः, छाद्मस्थिकोपयोगश्चान्तमौहूर्तिक इति ततः श्रमणो भगवान् महावीरो हितानुकम्पेन हितेन स्वस्य इन्द्रस्य च हितकारिणा तथाऽनुकम्पकेन भगवतो भक्तेन यद्वा हृदयेऽनुकम्पा भक्तिर्यस्य स तथा तेन हृदयानुकम्पेनेति हरिणैगमेषिणा देवेन जीतमेतदिति - आचार एष इति योऽसौ वर्षाणां तृतीयो मासः पञ्चमः पक्ष आश्विनकृष्णस्तस्याऽऽश्विनकृष्णस्य त्रयोदशीपक्षे - त्रयोदश्यां तिथौ हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति द्व्यशीतौ रात्रिन्दिवेषु - अहोरात्रेषु व्यतिक्रान्तेषु त्र्यशीतितमस्य रात्रिन्दिवस्य रात्रिलक्षणे पर्याये वर्तमाने दक्षिणब्राह्मणकुण्डपुर - सन्निवेशाद् उत्तरक्षत्रियकुण्डपुरसन्निवेशे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वाशिष्ठगोत्राया अशुभानां पुद्गलानामपहारं कृत्वा शुभानां पुद्गलानां प्रक्षेपं कृत्वा कुक्षौ गर्भतया संहृतः, योऽपि चासौ त्रिशलायाः कुक्षौ गर्भस्तमपि च दक्षिणब्राह्मणकुण्डपुरसन्निवेशे ऋषभदत्तस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भं संहरति । श्रमणो भगवान् महावीरस्त्रिज्ञानोपगतश्चासीत् - संहरिष्ये इति जानाति, संह्रियमाणो न आचाराङ्गसूत्रम्
-
११३