________________
अथ भावनाख्या तृतीया चूलिका उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं, तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यस्या भावनाख्यचूलाया आदिसूत्रम् -
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे याविहुत्था, तंजहा - हत्थुत्तराहिं चुए, चइत्ता गम्भं वक्कंते, हत्थुत्तराहिं गन्भाओ गभं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियंपबहए, हत्थुत्तराहिं कसिणे परिपुन्ने अब्बाघाए निरावरणे अणंते अणुतरे केवलवरनाणवंसणेसमुप्पन्ने। साइणा भगवंपरिनिबुए सू.१७५।।
तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः पञहस्तोत्तरः - क्रमापेक्षया हस्त उत्तरो यासां ता उत्तराफाल्गुण्यः, ता पञ्चसु स्थानेषु यस्य स पञहस्तोत्तरो भगवान् अभवत्। तद्यथा- हस्तोत्तरासु च्युतः, च्युत्वा गर्भ व्युत्क्रान्तः - उत्पन्नः१। हस्तोत्तरासु गर्भाद् गर्भ संहृतःदेवानन्दाया गर्भात् त्रिशलाया गर्भम् २। हस्तोत्तरासु जातः ३। हस्तोत्तरासु द्रव्यतः केशलुचनेन भावतो रागद्वेषाऽभावामुण्डो भूत्वाऽगारादनगारितां प्रव्रजितः ४ । हस्तोत्तरासु कृत्स्नं प्रतिपूर्णमव्याघातं निरावरणमनन्तमनुत्तरं वरं केवलज्ञानं वरं च केवलदर्शनं समुत्पन्नम् ५। स्वातिना सता भगवान् परिनिर्वृत्तः ।।१७५||
अथ किञ्चिद्विस्तरेण भगवत्सम्बन्धिवक्तव्यतामाह -
समणे भगवंमहावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइक्कंताए, सुसमाए समाए वीइ. सुसमदुस्समाए समाए वीह दूसमसुसमाए बहुवी. पन्नहत्तरीए वासेहिमासेहि य अद्धनवमेहिं सेसहिं जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाठसढे तस्स णं आसाठसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खतेणं जोगमुवागएणं महाविजयसिद्धत्थपुप्फुत्तरवरपुंडरीयविसासोवत्थियद्धमाणाओ महाविमाणाओवीसंसागरोवमाइं आउयं पालइत्ता आउक्खएणं ठिहक्खएणं भवक्खएणं चुए, चहत्ता इह खलु जंबुद्दीवे णं वीवे भारहे वासे वाहिणभरहे दाहिणमाहणकुंडपुरसंनिवेसंमि उसभवत्तस्स माहणस्स कोगलसगोतस्स देवाणंदाए माहणीए जालंधरसगुताए सीतुन्भवभूएणं अप्पाणेणंकुच्छिंसि गन्भं वक्कते।
श्रमणो भगवान महावीरोऽस्यामवसर्पिण्यां सुषमसुषमायां - प्रथमायां समायां व्यतिक्रान्तायां, सुषमायां - द्वितीयायां समायां व्यतिक्रान्तायां, सुषमदुषमायां - तृतीयायां समायां व्यतिक्रान्तायां, दुषमसुषमायां - चतुर्थायां समायां बहुव्यतिक्रान्तायां, पञ्चसप्ततिवर्षेषु मासेषु चाऽर्धनवमेषु शेषेषु
आचारागसूत्रम्
११२