________________
अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् अधुना सप्तममारभ्यते, पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यस्याऽध्ययनस्यादिसूत्रम् -
...समणे भविस्सामि अणगारे अकिंचणे अपुते अपसू परवत्तभोई पावं कम्मं नो करिस्समिति समुट्ठाए सव्वं भंते! अविन्नावानं पच्चक्खामि, से अणुपविसित्ता ग्राम वा जाव रायहाणिं वा नेव सयं अविनं गिव्हिज्जा, नेवऽन्नेहिं अविनं गिहाविज्जा, अविनं गिण्हंतेवि अन्ने न समणुजाणिज्जा। जेहिवि सद्धिं संपब्बइए तेसिंपि जाइं छत्तगं जाव चम्मछेयणगं वा तेसिं पुब्बामेव उग्गहं अणणुण्णविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिहिज्जा वा परिगिहिज्जाबा, तेसिंपुबामेव उग्गहं जाइज्जा अणुनविय पग्लेिहिय पमज्जिय तओसं. उग्गिहिज्जा वा प. ।।सूत्र.१५५।।
श्रमणो यतोऽहमत एवंभूतो भविष्यामि - अनगारः त्यक्तगृहपाशः अकिञ्चनः अपुत्रः अपशुः परदत्तभोजी पापं कर्म न करिष्यामीति, एवं समुत्थाय उपस्थितः सन् एतत्प्रतिज्ञो भवामीति - यथा सर्वं भदन्त! अदत्तादानं प्रत्याख्यामि, अथ चैवंभूतः श्रमणः अनुप्रविश्य ग्रामं वा यावद् राजधानी वा नैव स्वयमदत्तं गृह्णीयात्, नैवापरेण ग्राहयेद, अदत्तं गृह्णतोऽन्यान् न समनुजानीयात् । यैरपि सार्धं सम्प्रव्रजितस्तेषामपि यत्छत्रकं वा वर्षाकल्पादि यदिवा कारणिकः क्वचित्कुङ्कुणादिष्वतिवृष्टिसंभवात् छत्रकमपि गृह्णीयाद यावत् चर्मच्छेदनकं वा तान् पूर्वमेवाऽवग्रहमननुज्ञाप्याऽप्रत्युपेक्ष्य २ अप्रमृज्य २ नो अवगृह्णीयात् सकृद् वा प्रगृह्णीयाद् असकृद् वा, तान् पूर्वमेवाऽवग्रहं याचेत, अनुज्ञाप्य प्रत्युपेक्ष्य प्रमृज्य ततः संयत एवाऽवगृह्णीयाद वा प्रगृह्णीयाद वा ||१५५।। कि
सेभि. आगंतारेसुवा ४ अणुवीइ उग्गहं जाइज्जा, जे तत्थ ईसरेजे तत्थ समट्टिए तेउग्गहं अणुनविज्जा-कामंखलु आउसो.! अहालंवं अहापरिन्नायंवसामोजाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एद ताव उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो।से किं पुणतत्थोग्गहंसि एवोग्गहियंसिजेतत्थसाहम्मियासंभोइया समणुन्ना उवागच्छिज्जाजे तेण सयमेसित्तए असणेवा ४ तेण ते साहम्मिया ३ उवनिमंतिज्जा, नो चेवणं परवटियाए ओगिज्झिय २ उबनि. ।।सू.१५६ ।।
स भिक्षुः आगन्तारेषु वा आरामगृहेषु वा गृहपतिकुलेषु वा पर्यावसथेषु मठेषु वाऽनुविचिन्त्याऽवग्रहं याचेत यस्तत्र ईश्वरो यस्तत्र समधिष्ठाता गृहपतिनिक्षिप्तभरः तमवग्रहमनुज्ञापयेत् - कामं स्वेच्छया खलु आयुष्मन्! यथालन्दं यथाकालाऽवधि यथापरिज्ञातं यावत् क्षेत्रं अनुज्ञातं वसामो यावद् आयुष्मन्! कालमाश्रित्य यावद् आयुष्मतोऽवग्रहस्तावद्यावन्तश्च साधर्मिका आयान्ति तावत् क्षेत्रमाश्रित्य एतावन्मात्रमवग्रहमवग्रहीष्यामः, ततः परं विहरिष्यामः । स साधुः, किं पुनस्तत्र कुर्यादित्याह- अवग्रहे अवगृहीते सति ये तत्र साधर्मिकाः साम्भोगिकाः समनोज्ञा उपागच्छेयुस्ते
भाचारागसूत्रम्