________________
श्री अघटकुमार-चरित्रम् षाणशङ्कया माणिक्यमौज्झत्। प्रियतमे! तव पुत्रो नास्ति, अतस्त्वमेतमर्भकं महाद्भुतं गृहाण, तदनु सापि सहर्ष तं बालं समादाय स्वं(स्वां) पुत्रवतीममन्यत। पश्चात्सतनयां तां प्रेयसीं तत्रैव लतावेश्मनि स्थापयामास स मालाकारः। ततस्तदैवाऽप्रसूताया अपि तस्यास्तदनुभावतः स्तन्यमजायत। यद्वा-पुण्यशालिनां पुंसां क्षेत्रेऽपि खलं जायते। ___ अथ मालाकारः स्वकीयसमस्तज्ञातिवर्गे पुत्रजन्मव्याख्याय तदीयमहिमानं मलयोद्यानसम्पदा व्याचीकरच्च। महता महेन षष्टिजागरणादींश्च विधाय तदीयमनुगतार्थमघट इति नामधेयमकार्षीत्। ततस्तेन निजावासे समानीतः सोऽर्भकस्ताभ्यां महीयस्या मुदा पालितो लालितश्च त्रिवर्षीयप्रायोऽभूत्। अथैकदा कृती स मालिकः पत्न्या उपरोधेन राज्ञः प्रीतिकृते काञ्चनात्यद्भुतां चेतोहरी पुष्पमालां विरचितवान्। अत्युत्तमां तां च स्वप्रेयसीं तदैव मुदाऽदीदृशच्च। यतोऽमी मालिकनर्तकरजकप्रमुखाः कामिनीप्रधाना एव प्रायशो जायन्ते। अथ प्रमोदभरं बिभ्रती मालिनी तद्दाम पुष्पकरण्डके निधाय दास्यै समर्प्य स्वयं च निजकट्यां सुतं समारोप्य नृपावासमागतवती। राजसभामागता ससुता सा मालिनी राजानं नमस्कृत्य दक्षिणहस्तेन तां स्रजं दधाना, देव! गृह्यतामिदं दामेति राजानं स्पष्टमाचष्ट सा, तत्रावसरे तां मालां महीशो मनस्तुरङ्गस्य सहसा नियन्त्रणां विधिरचितां वल्गामिव, कामचापस्य ज्यामिव, प्रमोदभरस्याऽश्रुलहरीमिव, ऋतुराजस्य श्रिया दोलामिव, मृग्या बन्धनाय जालमिव चिरमपश्यत्। कस्य कीदृशी दृष्टिरेतस्यां मालायामर्भके चामुष्मिन्निति बुभुत्सोर्महीभर्तुस्तदानीं चपलतरादृष्टिः समस्तसभ्यजनोपरि पपात, यतःराज्ञा भोगिनेवैक-दृष्टिना नैव भूयते। पश्यत्सु च सर्वेषु तां मालां तस्य पुरोधसो दृग् मनागपि मालोपरि नापतत्। किञ्च तत्र
53