________________
श्री हरिबलधीवर-चरित्रम् विशालाधिपतिर्मुख्यामात्यादिसर्वसम्बन्धिनः समाकार्य हरिबलगृहे भोजनार्थमायातः। स हरिबलोऽपि भूपतिमनःप्रसादार्थं बहुविधां सामग्री समकारयत्। यदैव विशालाधिपतिर्भोजनशालां समायातस्तदैव वसन्तश्रीकुसुमश्रियौ सुन्दरान् वसनालङ्कारान् परिधाय स्वर्णस्थालपत्रे पक्वान्नादि संस्थाप्य समागतवत्यौ। चम्पकवर्णचतुरचपलावलयोस्तयोर्मनोहरं गात्रं दर्श दर्श तयोर्मनोहरां मधुरां वाचं च श्रावं श्रावं स मदनवेगो मूढो जातः, भोजनादौ मनो न संलग्नम्। मदनवेगे मदनवेगः समुत्पपात। तत्कालमेव तदीयकामाग्निर्बहु प्रजज्वाल। कथङ्कारं मया ते प्राप्ये। अथ स राजभवने समायातः। समागतं तं वीक्ष्य दासीदासप्रभृतयः स्वागतं चक्रुः। परंतु तदा तस्मै किमपि नारोचत। यतः - 'परस्त्रीदीपशालायां विषयगन्धं मदनवेगवेगितमदनवेगमनःपेटिकया सत्रा घृष्टवान्। अथ कामाग्निः प्रादुर्बभूव। अयि पाठकाः! विचारयन्तां नितरां निजचेतस्सु यत् सदाचारवृक्षसुयशःपुष्पं कृशानुज्वालायां प्रदीप्यमानायां दाहमन्तरा कथं नाम सन्तिष्ठेत्।' अग्नितोऽस्माद् राज्ञोऽन्तःकरणरुधिरमुत्पपात। तच्च निखिलशरीरे प्रससार, शरीरं च प्रजज्वाल। स नृपती रोगस्यास्य निवारणाय स्वीयं प्रधानमन्त्रिणमाहूतवान्। राजनीतिनिपुणो हि स प्रधानमन्त्री अवसरं विज्ञाय निजप्रतिस्पर्धिनं हरिबलं निस्सारणाय यत्नं यतितवान्। स चागत्याञ्जलिं बद्ध्वा सनम्रस्तं प्रोवाच-अयि राजन्! तव कामज्वरः शान्तिमापद्येत। एतदर्थ का नामौषधिः, मद्विचारे तु हरिबलपार्श्वे ये वसन्तश्रीकुसुमश्रियौ स्तः, ते एव भवदीयौषधिर्भवितुमर्हन्त्यौ। ते वै विचित्रगुणवत्यौ, दृष्टिगोचरमात्रादेव महाविषयोऽपि कामज्वरो निवृत्तिमाप्नुयानाम। एवम्भूते हि ते द्वे अपि। अवश्यं रक्षितव्या सा भवतौषधिः, भवतो मनोविकारं शाम्येत्सा, हृदयारविन्दं समानन्दयेत्, जगवृद्धिं वितनुयात्,
341