________________
श्री हरिबलधीवर-चरित्रम् नाङ्गीकृतं मया तद्वस्तुजातम्। दृष्ट्वैवं तेनापि मदर्थमत्याग्रह कृत्वा त्वमिहैवावतिष्ठस्वेति चाहमवाचिषि। भुज्यन्तां स्वचेष्टितानि ऋद्धिसमृद्ध्यादीनि वस्तूनि, रम्यतां च नवयौवनाभी रूपवतीभिः स्त्रीभिः। श्रुत्वैवं मयाऽभिहितं-न भवितव्यं मया चेत्थम्। यतोऽहं विशालाधिपतिमदनवेगाज्ञया त्वनिमन्त्रणार्थमिहायातः। भूपतिश्च महान्तं निजसुताविवाहमहोत्सवं कर्तुमुद्यतो वर्तते, अतो मयि कृपां कृत्वागन्तव्यं त्वया तत्र। स च विभीषणः किञ्चिद्विचार्य मां व्याहार्षीत्-हरिबल! मामकी पुत्रीं स्वीकृत्य पूर्व त्वया गन्तव्यम् विवाहदिनद्वयशेषे चाहमागमिष्यामि। इत्थं तदीयं निश्चितं वचः श्रुत्वाहमिहायातः। प्रत्ययार्थं च निजचन्द्रहासनामकं स्वीयखड्गं मह्यं समर्पयत्, सस्त्रियं मां समुत्थाप्याचिरादेवेहानीतवान्। राजन्! तव दुष्करकार्यसंसाधनाय मया चैतादृशी व्यथा सोढा। यतोऽहं स्वामिसेवां स्वीयं मुख्यं सुकृतं वेमि।
अथ पुण्यप्रतापतो हारिबलीयां कृत्रिमा वाचमृतां मन्यमानो मूढो नृपती राजसभा चाश्चर्यत्वमाप्य प्रशस्य च तं समब्रुवन्। अहो! महाप्रतापशीलोऽयं हरिबलो नो चेदस्मात्कठिनकार्यात् कथङ्कारं पुनः समायातु। ___ इत्थं गच्छत्सु कतिचिदिवसेषु तदीयवाक्ये संशयमापन्नो मुख्यो राजमन्त्री व्यचिन्तयत्-यत्केनापि सत्रा छद्म कृत्वाऽऽनीतेऽनेनामू खड्गकन्यके। अथ तस्मिन् हरिबले सोऽमर्षाग्निना दन्दह्यमानो राजसभायां तदीयां बहुख्यातिं श्रावं श्रावं भृशमताप्सीच्च। तदनु राज्ञस्तस्मिन्नधिकस्नेहमाने चावलोकमवलोकं दुर्मतिना भूपमन्त्रिणा चिन्तातुरीभूयाहर्निशं विचारं कुर्वतैकस्मिन् दिने हरिबलगृहे राज्ञो निमन्त्रणार्थं निश्चिक्ये। निजप्रेयस्योः स्त्रियोः शीलस्वर्णसन्तापनाय दन्दह्यमानां नूतनां भस्त्रिकां दृष्ट्वा हरिबलो निजहृदि बहु समताप्सीत्। परन्तु तत्काले किं कुर्यात्। अथ निश्चितदिने
340