________________
श्री हरिबलधीवर-चरित्रम् अस्मि तावत्कुशली, किं च पतिप्राणायै सत्यै स्त्रियै किमर्थमदोऽयोग्याचरणम्। इति भर्तृवचः समाकर्ण्य साह-स्वामिन्! अयोग्यं विद्धि योग्यं वा, यदद्य भावतं दर्शनं न स्याच्चेत्, श्वो वसन्तश्रीन स्यात्। हरिबलोऽगादीत्-यद्वेम्यहं तावकं सम्यक् सतीत्वं, दुष्टोऽसौ भूपतिस्त्वयि दुष्कर्मकर्तुमुद्यतः 'अधर्म कुर्वाणोऽधर्मफलं सहसैव लप्स्यते।'
अथ निजस्वामिनं विलोक्यैव सरोमाञ्चा वसन्तश्रीस्तदीयं कुशलादिकं पृष्ट्वा राज्ञोऽखिलवृत्तान्तमचकथत्। अथ हरिबलो निजगृहे समागत्य तत्रत्यमखिलवृत्तान्तं वसन्तश्रियं समवोचत्। 'यत्र हि वास्तविकं प्रेम तत्र किं नाम गोप्यं भवति पुंसां सुविदुषाम्।' अथ कुसुमश्रीसुलग्नवृत्तान्तमाकर्ण्य तया वसन्तश्रिया निजभर्ना सत्राऽऽरामेऽवाजि। तत्र बहु हर्ष मन्यमाना तया सह मुहुर्मुहुर्मिलित्वा द्वे अपि सहैव सन्तिष्ठमाने सुखमनुभवतः स्म। यथेदानीन्तनो जनो जायाद्वयं परिणीय स्वात्मानं दुःखवन्तं विदधाति न तथा हरिबलो जातः। तदीये द्वेऽपि प्रेमपूर्वकं सन्तोषान्मिलित्वा निजभर्तृसेवातत्परे जाते। क्वेदानीन्तना मूर्खाः स्त्रियः, क्व च तदानीन्तना विदुष्यः। ततो हरिबलो निजप्रिया-द्वयसहितो गृहं गच्छन् राज्ञः सूचनार्थ कञ्चन जनं प्रेषीत्। तदीयं समागमनसमाचार श्रुत्वैव स दुर्मतिर्हताशो बोभवामास। "पूर्व हि तं समाचारमनादृतवान् पश्चाच्च स्वीयभाग्यं विगर्हयन्नद्य नष्टा मे मुखप्रसादच्छविः। अद्य हि परिपक्वा मेऽप्याशा भूमौ प्रविष्टाः। धनिनो यथा धनं धूलिलितं भवेत्तथा मे सर्वाण्येव परिश्रमादीनि वैयर्थ्यमापुः। प्रावृषि यथाऽभ्रागमो वायुवशात् क्षण एव वैनाश्यमाप्नोति तथाद्य मे निखिला मनोरथाः क्षण एव वैनाश्यमापुः। किं बहुनाद्य भाग्यदेवी मां मेरुं समारोप्य नीचैरेवापातयत्। अद्य मे विनष्टं सौख्यादि।" 1. भू धातु यङ्लुप् परोक्षा। 2. व्यर्थस्य भावः।
337