________________
श्री हरिबलधीवर-चरित्रम्
सर्वत्र सुलभा राजन्, पुमांसः प्रियवादिनः । अप्रियस्य कुपथ्यस्य, वक्ता श्रोता च दुर्लभः ||१||
अथ स राड् हरिबलमारणाय कुमतिमन्तं मुख्यामात्यमाहयद् भोः! करणीयोऽस्ति मया सुताया उत्कृष्टविवाहमहोत्सवः, अतो वर्त्तते कश्चिदेतादृशः सत्त्ववान् पुमान्, यो लङ्कापुरीं गत्वा सकुटुम्बं राक्षसाधिपं विभीषणं समाकारयेत्। सभास्थितैस्तादृशमघटितं राजवचः समाकर्ण्य सर्वलोकोऽधोमुखीभूतः, नालं च कोऽपि राजसंमुखी भवितुम्। अथ दुष्टमतिः स राजमन्त्री राजानमित्थमभ्यधात्-स्वामिन्! सर्वभूपतिललामभूत! कीदृशो भावत्काः सेवकाः, यद् भावत्कं वचः श्रुत्वा सर्वेऽप्यसमर्था इव कृतनीचैर्मुखा बभूवुः। न कोऽपि संमुखोत्तरदायी, किं चाहं जानामि यश्चैतादृक्कार्ये सामर्थ्यवान् स च साहसिकशिरोमणिहरिबल एवेति। स च भावत्कं कार्यमवश्यं विधास्यतीति मे विनिश्चयः यतो भवता सम्मान्यः, मान्यो, भवांश्च तेनापि, सत्यभूतां तदीयां वाचमवधार्याभाणि राज्ञा स हरिबलः। लज्जावशीभूतः सोऽप्योमिति स्वीचकार। "यतो हि सलज्जाय पुंसे वाक्यमेवोन्नतादुन्नतं कर्म, त्रपावशीभूतो जनोऽकार्यमपि कार्यमङ्गीकृत्य स्वीयमरणमपि स्वीकरोत्येव। ततः स धीवरो हरिबलो निजगृहमेत्य तदीयं वचो निजभार्यायै वसन्तश्रिये संश्रावयामास। श्रुत्वैव सविषादा सा राज्ञो दुरभिप्रायं विज्ञाय स्वीयं भर्तारं हरिबलं संबोधयामासप्रियप्राणनाथ! राजगृहगमनाद् भवतः कीदृशोऽनर्थोऽजनिष्ट। भवदनायैव सर्वमेतद्विहितं तेन। अतो बहु विचार्य भवता विधातव्यं कार्यमेतद्यतोऽविचारितं कार्यमनायैव भवतीति। शास्त्रादिना श्रूयते - सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
325