________________
श्री हरिबलधीवर-चरित्रम् सा निजचेतसि विचिन्तयति-रात्रौ वेविद्यमानायां घनिष्ठेऽन्धसि अविदिताध्वनि गत्वा द्रागेव मदर्थं जलं समानयत् नहि स्वल्पोऽपि कालो व्यतीतः। ततोऽयं बलीयान् पराक्रमी साहसिकश्च। अथ सोऽपि व्यचिन्तयत्-यदवश्यं नौ कार्य भावि, इत्येवं विचारयतोस्तयोः कल्यकालः समजनि। ततः सा कुमारी प्रभातकालं विज्ञाय हरिबलीयं सुमनोहारिरूपं ससुप्रसन्ना मुहुर्मुहुस्तदीयं सौभाग्यातिशयं चावलोक्य समभ्यधात्। यद्, अयि सुभग! अवसरोऽयं खलु नौ लग्नवेलायाः, अतो मां पत्नीत्वेनोररीकुर्याः, यतोऽहं पूर्वमवधारितवती स चायमवसरो जात एवेति श्रुत्वैवं तदीयां वाचं स हरिबलो विचिन्तयति-'यदहोऽचिन्तनीयो नियममहिमा' इत्यादि बहुधा विमृश्य सहर्षो गान्धर्वविवाहेन हरिः श्रियमिव सकलशोभाश्रियं वसन्तश्रियं परिणीतवान्। तद् दिनादेव हरिबलीयः पुण्यपद्मोदयो बोभवीति स्मेति। ततस्ततो विहरन्तौ कञ्चनैकं सुग्राममुपलभ्य तत्र गत्वा सलक्षणकं घोटकं चिक्राय। कतिपयांश्च दासीदासान् स्वान्तिके संस्थापयामास। यतः 'सति द्रव्यव्यये को नाम देहक्लेशादिकमुपसहते।'
ततः सदासादिको चलन्तौ भूरिदेशान् समुल्लङ्घयन्तौ क्रमशो लक्ष्म्या विशालं विशालपुरं समुपलभ्य शुभशकुनेन तस्मिन् सुपत्तने प्रविविशतुः। ततो गते कियति काले कस्माच्चिद् व्यवहारिपुत्रात्सप्तभूम्यावासं मूल्यतः संक्रीय तस्मिन् गृहे शुभमुहूर्ते स्थितिं चक्राते। ततो हरिबलो विचिन्तयति-'क्वाहं नीचवंश्यो धीवरः?, क्वासौ पुण्यवती राजपुत्री?, क्वेदं वित्तसामग्रीबाहुल्यं? क्व चाहं निर्धनो जनः? अस्तु सर्वमपि दैवयोगतोऽलाभि मया। अतः पद्मां प्राप्यापि किमर्थं न लक्ष्मीफलं लभेयाहम्।' इत्थं विमृश्य हीनदीनदुःखिजनेभ्यो बहुदानं प्रदत्ते स्म। अतस्तदीयं 1. प्रातः।
323