________________
श्री बृहद्विद्वद्गोष्ठी गमयतीति।
अथाऽस्य विदुषो वाचमाकाऽन्यः कश्चिद्विपश्चिन्मृगपक्षमाश्रित्याभ्यधात्-यदवाच्यं किल सर्वथा सभायां नीतिविरुद्धं वचः। निर्गुणिनो नरस्य मृगसादृश्यमिति स्वल्पशेमुषीणामेव कथनम्। यतो मृगेष्वपि भवन्ति भूयांसः प्रशस्या गुणाः। तथाहि -
स्वरे शीर्ष जने मांसं, त्वचं च ब्रह्मचारिणि । शृङ्गं योगीश्वरे दद्यां, मृतः स्त्रीषु सुलोचने ||२||
व्याख्या - मृगा एव सुगायनश्रावयितृभ्यो नृभ्यो निजशिरः, मांसादेभ्यो मांसम्, वर्णिभ्योऽजिनम्, योगिभ्यः शृङ्ग ददति, किं बहुना, तच्चक्षुभिरेव स्त्रिय उपमीयन्तेऽत एव ता मृगाक्ष्योऽभिधीयन्ते। तथा मृगाणां कस्तूरिका सुकार्येषु समायाति, बलपुष्टये चातीव साहाय्यं विधत्ते। अत एव बहूपदेशका व्याचक्षते चैवम्
दुर्वावरतृणाऽऽहारा, धन्यास्ते वे वने मृगाः । विभवोन्मत्तमूर्खाणां, न पश्यन्ति मुखानि ये ||३|| अतो न मृगतुल्या निर्गुणिनो नरः।
अथ धनपालपण्डितो विमृश्यैवमाह-यद्येवं तर्हि निर्गुणिनो जनाः 'मनुष्यरूपाः पशवश्चरन्ति' इत्येवं वाच्याः।
अथाऽन्यो विद्वानुवाच-एतदप्यनुचितं नैतच्छोभते सभ्यसभायां नीतिरिक्तं भवद्वचः। अस्यां संसृतौ नहि पशुमन्तरा किमपि कार्य भवितुमर्हति, तच्छरीरावयवादिभिरेव बहूनि कार्याणि सम्पाद्यन्ते। पशव एव सर्वेषां जनानां परमोपकारकारणं जीवनं च। तेषां शरीरावयवा न निरर्थकाः, किञ्च सार्थका एव। तथाहि - 1. चर्म। 2. संसारे। ..
289