________________
श्री चम्पकमाला - चरित्रम् चतुर्थ- प्रस्तावः अकारि च सिद्धाचलरैवतादिमहातीर्थगमनप्रभुदर्शनसुनमनादि । इत्थं सस्त्रीकः सार्थेशः श्राद्धधर्ममाश्रित्याऽऽर्हच्छासनवर्द्धनतत्परः कृताभिग्रहं यथावत् परिपालयन् प्रान्ते तौ दम्पती समाधिमृत्युना सद्गतिं लेभाते । यतो "भगवदर्हच्चरणकमलसेविनामीदृश्येव गतिर्जायते।'' तस्मात्सर्वैरेव भव्याशयैः शीलरक्षायै प्रयतितव्यम् । एतद्धि सम्यगवितं सत्प्राणिनां चिन्तामणिरिव लौकिकं सर्वं सुखादिकं साधयति, प्रान्ते चाऽजरामरगतिं प्रापयतीति । स्वस्त्यस्तु ।
आजन्मप्रतिपाल्य शीलमनघं सत्यग्रगण्या भवे, ह्यस्मिंश्चम्पकमालिका निरुपमं लेभे यशोनिर्मलम् । तद्वद् यः परिपालयिष्यतितमां शीलं किलाऽखण्डितं, सत्कीत्र्त्याः सदनं भविष्यतितमां मामहामानो हि सः ||४६ ||
व्याख्या - यावज्जीवमनघं निर्दोषं शीलं = सतीत्वं प्रतिपाल्य =संरक्ष्य सतीनां = पतिव्रतानां स्त्रीणामग्रगण्या मुख्या सती, अस्मिन्भवे = जन्मनि सा चम्पकमाला निरुपमम् = निर्नास्त्युपमा यस्य तदनुपमं निर्मलं यशः कीत्तिं लेभे = प्राप्तवती । तद्वद् = चम्पकमालावद् यः = कोऽप्यन्योऽखण्डितं शीलं = ब्रह्मचर्यव्रतं पालयिष्यतितमाम्, स नरो हि निश्चितं मामह्यमानः = लोकैरशेषैः स्तूयमानः सत्कीर्त्त्याः = सुयशसः सदनं भविष्यतितमामिति ।
-
भृशं
श्रीसौधर्म बृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप
श्रीराजेन्द्रजगञ्जयिष्णुचरणाम्भोजद्वयान्ते सदा ।
एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्तावतुर्योऽनघः ॥
285