________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् तथा पुमानपि कश्चिदस्त्येव, इति तथ्यमवेहि। यः खलु गुणवानस्ति, स पुमानवश्यमेव गुणगणमण्डितसज्जनसङ्गत्यै स्वयमेव प्रवर्त्तते, न हि कस्यचिन्नोदनमपेक्षते, सज्जिगंसया कमलिनी प्रति केनाप्यऽप्रेर्यमाणो हंस इव। गुणवतां तादृशी प्रकृतिरेव वर्त्तते, यया गुणिना सङ्गन्तुं स्वयमेव प्रवर्तते गुणवान्, अन्यदाऽऽस्तां तावत्। सुभगे! गुणवतां सङ्गत्यै बहुदूरतोऽपि गुणी समायाति। अतः, गुणवत्या भवत्या सह सज्जिगंसां वहन् महीयानुज्जयिनीतः कश्चिदत्र महामन्त्री समायातः। तदाह - गुणिनि गुणज्ञो रमते, नाऽगुणशीलस्य गुणिनि परितोषः। अलिरेति वनात्कमलं, न हि भेकस्तत्र संस्थोऽपि ||३७||
व्याख्या - गुणाञ्जानातीति गुणज्ञः = गुणग्राही जनो गुणिनिगुणवति जने रमते = हृष्यति, अगुणशीलस्य = नास्ति गुणस्यशीलं यस्मिंस्तस्य निर्गुणस्य गुणवति परितोषः = प्रीतिनोंदेति, यथा अलिर्धमरो वनाद्वनं विहाय कमलं = सरोजं प्रत्येति समायाति तत्र सौरभ्यगुणस्य सत्त्वात्, तत्र जले तत्रैव स्थाने संस्थोऽपि भेको मण्डूको नैति, कमलगुणानभिज्ञत्वात्।
स च राजमंत्री कामुको युवा सकलकला विद्वान्महीयान् पुमान् काञ्चिदद्भुतामेव सुषमां धत्ते। रूपेण साक्षान्मदन इव चकाशन् महाचतुरशिरोमणिर्मधुरालापी, मांसलाऽवयवः, सच्चिहचिह्नितमुकुटमण्डितो मूलदेवाभिधानः सुराचार्य इव मतिमान्, विक्रमार्कनरनाथकुलपरम्परागतवर्तमानमन्त्रिगणगरीयान्,। विक्रमराजस्य प्राधान्येनाऽभिमतः, कदाचित्कस्यचिज्जनस्य मुखेन तावकीनलोकोत्तरस्फारजगत्प्रसारगुणावलीमाकर्ण्य भवत्या सङ्गन्तुमत्युत्सुक इहागतोऽस्ति। तेनैव मन्त्रिणा स्वाशयं त्वामभिधातुमहं तवान्तिके प्रेषिताऽस्मि। यस्मादत्युग्ररागवान्म
262