________________
प्रथम-प्रस्तावः
श्री चम्पकमाला-चरित्रम् चातुर्यकलया राजनि बहिः प्रीतिमाविष्कुर्वती, अन्तश्च कपट विदधती, चतुरतरनरेश्वरस्य मनोरञ्जनाय मनोहराणि वचनानि नर्तयन्ती सरसवचनवारिधारां वर्षितुं लग्ना। इत्थं स्वस्वभावं प्रकटयन्तीमेनां दक्षोऽपि राजा तस्याः कपटप्रेम्णा मुग्धीभूय सरलप्रकृतिकामेव विवेद। पूर्वपरिचितां तदीयदक्षतां सर्वथा विसस्मारैव। स्त्रीणां भर्तुरानुकूल्यधारणमेव महीयान् रसोऽस्तीति निश्चयं स्वान्ते बिभ्रती सा नृपेणाऽप्रेरितापि नरपतिचित्तानुकूलाचरणेन तन्मनः प्रीणयितुं लग्ना। तस्या निःसीमानुकूलवृत्त्या रञ्जितो राजा तदनुकूलीभूयैव तामसेवत। यस्माद्धेतोः "सकलं लोकं वशीकर्तुं मन्त्रं विनैवानुकूलाचरणं कार्मणं बिभर्ति युवतिजनः।"
अथैकदा सा नवोढा कामिनी राजानमित्युक्तवती-स्वामिन्! अहमत्र भवने परिवारहीना शरीरमात्रसहाया कथमेकाकिनी दिवसान् गमयानीति। भवानपि त्रिचतुर्दिवसानन्तरं मत्सन्निधावायाति, तदेव दिनं गणयामि, तामपि रजनी क्षणमात्रमहं जानामि। त्वदङ्गसङ्गं यस्यां रजन्यां नो लभे, सा रजनी तु वत्सरदेश्यैव प्रतिभाति। अतो भवता प्राणकल्पेन वियुक्ताऽहं यथा सुखेन दिनानि यापयामि, तथा मयि कृपामाधाय विधीयताम्। लेखनसामग्री लेखिनी मसीपात्रादिकं च मह्यं देहि, येन त्वद्विरहखिन्नाऽप्यहं तत्कर्मविदधती कालं क्षपयेयम्। अत आह कश्चित्कविः
गणयति दिनमपि कल्पं, विरहपीडिता निरुद्यमा नारी । मनुते सैव हि वर्ष, भर्तुरङ्कगता किल घसम् ||९||
व्याख्या - विरहेण-पतिवियोगेन पीडिता-दुःखिता, निरुद्यमा= लेखनपठनादिसदुद्योगरहिता दिनमेकमपि कल्पं = सृष्टि-प्रलयवत् गणयति=जानाति, सैव नारी भर्तुः प्रियस्याङ्के
206