________________
श्री जगडूशाह-चरित्रम् कारयित्वा तेष्वर्हतां स्थापनां व्यधत्त। एवमष्टापदीयमहामन्दिर निर्माप्य तत्रार्हतां चतुर्विंशतिं मूर्तिं महतामहेन विधिवत्प्रातिष्ठिपच्च। किञ्च त्रिखण्डापार्श्वनाथमूर्तिमप्यसौ
स्वर्णपत्रेण विभूषयाञ्चक्रे। ३. स्वभ्रातू राजपुत्र्या हांसीतिप्रसिद्धाया उद्देशेनापि तत्क
ल्याणहेतवे रमणयीतराऽऽरसोपलैः ससत्यधिकशतं तीर्थकृतां मूर्ति निर्माप्य यथोक्तविधिना विशालतरकमनीयतमे प्रासादे स्थापयाञ्चक्रे। एतेषामर्चायै तत्रैव नगरेऽसौ बृहती
मेकां रम्यां पुष्पवाटिकामपि निरमापयत। ४. पुरा गुर्जरेश्वरसोलकी-मूलराज-चौलुक्यवंशीयकुमारपाल
भूपालाभ्यां च बन्धापितं तटाकमासीत्। सोऽतिजीर्णतरोऽजायत। एनमप्यतिजीर्णमालोक्यासौ सोत्साहमुददीधरत। परितः प्रस्तरैरबन्धयत सोपानानि रम्याणि,
तथैव गुजरेश्वरकर्णदेवस्य वापिकामपि जीर्णतरामुद्धारितवान्। ५. ढङ्कानगयां प्रभोरादीश्वरस्य महदेकं चैत्यं निरमीमपत्।
पुनः सौराष्ट्रे झालावाडप्रान्तीय-वर्धमानपुरे तीर्थङ्कराणां चतुर्विंशतिजिनमूर्तिभिः समन्वितमष्टापदीयविशालं मन्दिरमकारि। तत्रैव नगरे मम्माणिकोपलैरिजिनेन्द्रस्य
मूर्ति निर्माप्य महीयसोत्सवेन यथाविधि प्रातिष्ठिपच्च। ६. शतवाटीनगरे च द्विपञ्चाशत्तमदेवकुलिकाशोभितमुच्चै
स्तममतिसुन्दरमृषभदेवस्वामिनो मन्दिरं कारयाम्बभूव। तथा शत्रुञ्जयमहातीर्थेऽप्येष ससमन्दिराणि (देवकुलिकानि) रचयामास। ७. सुलक्षणपुरसमीपवर्ति-देवकुलाख्यग्रामे च षोडशतीर्थङ्करस्य श्रीशान्तिनाथस्य मन्दिरमकारयत। स्वग्राममोहं त्यक्त्वैवैष
140