________________
श्री जगडूशाह-चरित्रम् स सङ्घः। तत्र च सङ्घसहितो जगडूशाहस्तेन गुरुणा साकं महापावनं तीर्थाधिराजमेनं गिरिपतिं समौक्तिकैः स्वर्णपुष्पैर्नीराज्य समभ्यर्च्य तदुपर्यारोह। तत्राऽऽदीश्वरप्रभोरालोकनेनानेकजन्मार्जितकर्ममलान्यनीनशत्तमाम्। पुनस्तत्र पवित्रीकृतदेहो विधिना भगवन्तमानर्च। तत्रावसरे सूरीश्वरः शत्रुञ्जयतीर्थप्राच्यतां जीर्णोद्धाराद्यनेकरहस्यविषयांश्च साल्लोकाञ्छावयामास। तदनु सोलनन्दनः परया भक्त्याऽष्टधां ससदशविधामेकविंशतिविधां च भगवतः पूजा विधाय स्वजन्म साफल्यमनैषीत्। भट्टेभ्यश्चारणेभ्यो याचकेभ्यश्च विविधानि दानानि प्रदाय तानशेषानतूतुषन्नितराम्। अनेकस्वामिवात्सल्यप्रभावनादिकृत्येनाऽसौ तत्र तीर्थे सल्लक्ष्म्याः सद्व्ययमकरोत्, तदनु रैवताचलोपर्यागत्य भगवन्तं नेमिनाथं दर्श दर्श स्वं सफलीकुर्वन् भावपूर्वकं प्रभुसेवनभजनादिकृत्यं वितन्वन् ससको जगडूशाहः कृतकृत्यतामासवान्। कियन्त्यपि दिनानि तत्र स्थित्वा स सङ्कोऽसौ प्रभोः सेवाभक्त्यादिलाभमलभत। ततः पश्चादसौ सङ्घस्तदग्रे प्रतस्थिवान्। अनेकदीनदुःखिनिराश्रितविकलाङ्गादिजनेभ्यो मुक्तहस्तेन नानाविधानि वसनाऽशनाऽऽदीनि तदीप्सितयाचिताऽन्यान्यपि दददसौ सङ्घाधिपतिः स्वधर्मिणामपि दुःखान्यपाकुर्वन् निजभद्रेश्वरनगरमायातः। तत्रागतदैशिकवैदेशिकनरनारीगणं समस्तं योग्यं सत्कृत्य स्वस्वसदनं प्रापयामास। १. अथाऽऽत्मगुरोः परमदेवसूरेरुपदेशेन शत्रुञ्जयमहातीर्थ
यात्राकरणानन्तरमसौ स्वलक्ष्मी सुकृतपथे व्येतुमारभत। भद्राशयोऽसौ जगडूशाहस्तत्र भद्रेश्वरनगरे श्रीवीरसूरिकारित-वीरप्रभुचैत्योपरि महान्तौ स्वर्णकलशदण्डौ समा
रोप्य मन्दिरस्य सुषमां प्रैदिधत्। २. स्वपुत्र्याः प्रीतिमत्याः कल्याणार्थमपि-आरसोपलानि
समानाय्य तैरेव रमणीयतराऽऽरसप्रस्तरैस्त्रीणि लघुचैत्यानि
139