________________
७२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
गीतिः -
राजनगरसुखवासं, परमर्द्धिक-लल्लूभाइ-तनूजम् श्रीमच्छोटालालं, ह्युपदिदेशपुरैकदा गुरुरित्थम् ॥४०२॥ आर्या - भविक ! महाधनशालिन् !, सिद्धाचलीयमतिसुन्दर-संघम् । निष्काशय निजलक्ष्मी-मुपयुक्ष्व महामते चैवम् ॥४०३॥ गीतिः - सोऽवक् मालवदेशं, व्रजसि कथमेतासि ? पुनरेतस्मिन् । आख्यच्चरित्रनेता, श्रेष्ठिन्नवसरेऽवश्यमैष्यामि ॥४०४॥ आर्या - इति दत्तां गुरुवाचं, स्मृत्वा गुरुमानेतुमुपागतवान् । उज्जयिनीपुरि झवेरी, लल्लुसुत-च्छोटालालः ॥४०५॥ वसन्ततिलका - आगत्य तं गुरुवरं कथयाञ्चकार,
स्वामिंस्त्वदुक्त-वचसा गमयामि सङ्घम् । सिद्धाचलीयमधुना तत एहि तस्मिन्,
कामञ्च नः परिपिपूर्हि कृपां विधाय ॥४०६॥ स्वीकृत्य तस्य सुधियः परमाहतस्य,
विज्ञप्ति-माशु तत एष गुरुर्विहृत्य । आगत्य राजनगरं सुदिने सहस्र
संख्याऽन्वितैः सममसौ विजहार संधैः ॥४०७॥ आगच्छदेष कुशली सह सर्वसंधैः,
शत्रुञ्जयं परम-पावन-तीर्थराजम् ।