SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अवन्तिनगर्याः किश्चित् परिचयः । लुम्पका अपि सह चेलु-रतिमोद-पाथोनिधि-कृत- स्नाताः । पूजा - प्रभावनाऽऽदौ, भागमपि लेभिरेऽधिकं ते ॥३९६॥ उपजातिः प्रसङ्गतोऽहं नगरीमवन्तीं, तामत्र किञ्चित् परिचाययामि । एषा पुरा भोजनरेश्वरस्याऽऽ सीद्राजधानी महती प्रशस्ता ॥ ३९७॥ वर्वर्त्ति तस्मिन्नगरेऽधुनाऽपि, तद्राजकालीन - घटी किलैका । अत्यन्तगुर्वी सततं चलन्ती, - कदाऽपि वैकृत्यमुपैति नैषा ॥ ३९८ ॥ ७१ आर्या आलोक्य यामिदानीन्तना वैदेशिका: कलाऽतिकुशलाः । आसीद्धारते कियती, कला ददानीमित्यनुमान्ति ॥ ३९९ ॥ विलसति सम्प्रति तस्या - मवन्ती - पार्श्वनाथ - विभुचैत्यमपि । प्राचीनतरमपूर्वं, यदुदीक्ष्य जना विस्मयन्ते ॥४००॥ मन्दक्रान्ता तस्यां पुर्यां ससुखमनघो वर्धयन् भूरि धर्मं, चातुर्मास्यं वसु-शर- नव- ग्लौमिते ( १९५८ ) विक्रमाब्दे । संसाराब्धौ चिर- निपतितान्मोह-रज्जु-प्रबद्धान्, नृनुद्धर्तुं ह्यकृत विबुधः सद्गुरुर्विश्ववन्द्यः ॥४०१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy