SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् धर्मोपदेशमददाद् घन-गर्ज-जेत्रा, . ___नादेन सर्वमनसा-मतितर्पणं सः ॥३८९॥(युग्मम्) एतद्गुरोर्ललित-धार्मिक-देशनां हि, तत्रत्य-लुम्पकजना अपि जातरागाः । जैनेतराश्च सुजना बहवः सभायां, श्रोतुं समेतुमलगन् नियमेन नित्यम् ॥३९०॥ व्याख्यान-लाभमधिकं समवापुरेते, ते लुम्पक-प्रमुख-पौरजनाः समग्राः । तौ कासरीय-पुखराज-समाह्व-कृष्ण लालाऽभिधौ गुरुवरस्य महोपदेशात् ॥३९१॥ सम्यक्त्व-दाढयमुपनिन्यतुरेतदन्ये, ते लुम्पका बहुजना अनुपचक्ररेतौ । सर्वेऽप्यमी प्रतिदिनं जिनपूजनादि, कर्तुं प्रसक्त-मनसस्त्वथ जज्ञिरे हि ॥३९२॥ (युग्मम्) आर्या - चत्रासा-लालचन्द-वाला श्रेष्ठिवरोऽधिकश्रद्धालुः । उद्यापनं बहुल-धन-व्ययेन कृतवान् गुरूपदेशात् ॥३९३॥ इहाऽपि भागाऽऽधिक्यं, प्रपेदिरे लुम्पका बाहुल्येन । दुष्कर-तपांस्यभूवन्, मास-क्षपणकाद्यनेकानि ॥३९४॥ पर्वृषणतः पश्चात्, निरगाच्चैत्यपरिपाटिका रम्या । सज्जिताऽमित-नर-तुरग-रग्रेसरीकृत-महाध्वजैः ॥३९५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy