SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गुरोरवन्तिकानगर्यागमनम्। चरित्रनेता प्रतिघनमेष, सहस्त्र-संख्याऽधिक-सज्जनानाम् ॥३८४॥ उपस्थितौ संसदि मेघनादैः, सुधोपमाऽमोघ-महोपदेशान् । प्रदाय सर्वानकरोदनल्प प्रज्ञात-सद्धर्मविशेष-तत्त्वान् ॥३८५॥ (युग्मम्) मन्दक्रान्ता - धर्मोन्नत्यं परममभवत्सद्गुरूणाममीषां, सद्व्याख्यानैः श्रवणसुखदैः शृण्वतां पापहारैः । घोरं चक्रे बहलजनता सत्तपः कायिकं वा अङ्गीचक्रुर्विविध-नियमान् प्राणिनस्तत्र भव्याः ॥३८६॥ उपजातिः - प्रस्थाय तस्मान्नगरी प्रशस्ता मवन्तिकामागतवान् वरीयान् । पोपूयमानः पृथिवीमघौघं, लुम्पञ्जनानां क्रमशो मुनीशः ॥३८७॥ वसन्ततिलका - दन्ध्वन्यमान-विविधाऽऽनक-काहलाऽऽदि वादित्र-तार-निनदैः परिपूरिताऽऽशैः । पीयूषधाम-तुलिताऽऽनन-सुन्दरीणां, सद्राग-पूर्ण-कमनीयतरैश्च गीतैः ॥३८८॥ उच्चैस्तरोद्गत-जयध्वनि-शङ्खनादैः, सम्प्राविशन्नगरमेष गुरुस्ततोऽसौ ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy