________________
गुरोर्वेजलपुरे गमनं धर्मोपदेशदानं च । मालवदेश आगमनम् । विपुल-धारपुरं पुरवासिभिः,
रचित-चारु-महामहतः पुरम् । प्रमुदितः प्रविवेश ददौ मुदा,
सदसि चारु-गिराऽमृत-भाषणम् ॥३७४॥ इत इयाय विहृत्य महामति
वितत-माण्डव-पूर्वगढाऽभिधम् । नगरमत्र विधाय सुयात्रिका,
भविकवृन्दमनल्पमुपादिशत् ॥३७५॥ भुजङ्गप्रयातम् - क्रमादिन्दौराऽऽख्यां पुरीमाससाद,
सुगुर्वी महर्द्धि महाराजधानीम् । ततः पौरलोका अशेषाः प्रहर्षात्,
ध्वनद्भिः समुच्चैः समैरेकदैव ॥३७६॥ सुबेण्डानकाद्यैरनेकैः सुवाद्यैः,
तडिद्गौर-बिम्बाधराणां सुगानैः । प्रवेशं गुरूणां समाचीकरन्त,
पुरे तोरणाद्यैः सुसज्जी-कृते हि ॥३७७॥(युग्मम्) उपजातिः - मेघोऽम्बुधारामिव सद्गुरुः स,
धर्मोपदेशं ह्यमृतायमानम् । विद्वत्प्रकाण्डः सुचिरं ववर्ष,
स्वर्गाऽपवर्गप्रदमात्मनीनम् ॥३७८॥