________________
६६
वसन्ततिलका
उपजाति:
प्रियम्वदा
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
आगत्य वेजलपुरं सुजनान् प्रबोध्य, सम्प्रस्थितस्तत उपागतवान्मुनीशः ।
--
सद्रोधराऽऽख्यनगरं तत आजगाम,
-
दाहोद - नाम-नगरीं महतीं महीयान् ॥३६९॥
( ) व बीजापुर वासि - वाडीलालं तथा मारव - थावलीयम् । दलाऽऽत्मजं तं हकमाऽभिधानं, चारित्रवेषैः समलङ्करोत्सः ॥३७०॥
प्रथम - वीर - विजयाऽभिधं शुभं, तदनु हर्षविजयाऽभिधानकम् ।
द्रुतविलम्बितम् -
अकृत सद्गुण-विभूषितो महान्, अवनिमण्डल- सुपावनो गुरुः ॥ ३७१ ॥
वैतालीयम् -
स वीरविजयो बभूव तन्मुनेः, कान्तिविजयस्य शिष्यकः । सहर्षविजयस्तु सद्गुरो - रमुष्य चरित्र नायकस्य वै ॥ ३७२ ॥
कृत-विहार इतः प्रभुराययौ,
-
प्रथित-राजगढाऽभिध-सत्पुरम् ।
पुरजनैर्विविधोत्सव-सत्कृतः,
पुनरितो गतवान् गुरुभिः समम् ॥३७३॥