SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुः सूर्यपूर आगमनं, दीक्षा प्रदानं च । तदनु गंधारतीर्थ आगमनम् । ६५ वसन्ततिलका उपजाति: - तत्राऽभ्युपेत- वर- मालवदेश-सङ्घ विज्ञप्तिमाप्य चपलं यमिनां वरिष्ठः । पन्यास - भावविजयो गुरुवर्य एषु, एतच्चरित्र - वरनायक - कान्तिकाऽऽद्यैः ॥३६४॥ शिष्यैरनेक- मुनिभिः सह सत्वरं हि, तस्माद्विहारमकृत प्रतिमालवं सः । गन्धार-कावि-कतितीर्थ - विशेष - यात्रां, मार्गे विधाय पुनरेष ततश्चचाल ॥ ३६५॥ ( युग्मम् ) सन्तस्थिवांस्तत्र हि हीरसूरि र्गान्धार - पुर्यामतिशान्तमूर्तिः । वर्षर्त्तुकालं प्रथमं तदाऽऽसीत्, सुश्रावकाणां वसतिः सहस्रम् ॥३६६॥ तत्राऽधुना द्वे रमणीयचैत्ये, स्तः श्रावकाणामुभके च गेहे । प्रायोऽन्यधर्मीय - जनाऽऽलयानां, विभाति संख्या शतमेव सर्वा ॥ ३६७॥ महीयसस्तस्य पुरस्य यातैः, सम्वत्सरैर्द्वित्रिशतैः किलेदृक् । विपर्ययः कालकृतो बभूवान्, कालो बलीयान् दुरतिक्रमो यत् ॥३६८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy