________________
६०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् धर्मं विहाय मनुजा इह दुःखमेव,
सम्प्राप्नुवन्ति सकला निरचिन्वतेति । संसेव्य चाऽऽर्हतममुं परिशुद्ध-धर्म,
भौमं सुखं निरुपमं परिभुञ्जतेऽस्मिन् ॥३३९॥ धर्मान्तरीय-जनताऽपि समेत्य नित्य
माकर्ण्य गौरवमुखा-द्धित-तथ्य-धर्मम् । सम्प्राप्य बोधमधिकं जगृहुः सहर्ष,
नैशाऽशनाऽऽदि-कति-वर्जनमादरेण ॥३४०॥ शिखरिणी .. चतुर्मासे तस्मिन्नगर उपतस्थेऽतिकुपिता, महामारी तस्यां ख-जलधि (४०) नमो-वारिधि (४०) जनाः । अहो ! मर्तुं लग्नाः प्रतिदिवस-मेकोऽपि मनुजो, मृतिं नाऽगाज्जैनः सुगुरु-जिनराजाऽतिकृपया ॥३४१॥ उपजातिः - तीर्थान्तरीया अपि सर्वलोकाः,
सज्जैन-धर्माऽतिशय-प्रभावम् । विलोक्य लग्ना अनुकर्तुमेनं,
__ चमत्कृतिं चेतसि सन्दधानाः ॥३४२॥ इत्थं हि जीमूत इव प्रवर्षन्,
सद्देशनाऽम्बूनि गुरुः प्रकामम् । अध्युष्य मासान् कतिचिच्च तस्मि
नशीशमत्सर्व-मुपद्रवं सः ॥३४३॥