________________
वडनगर वर्णनम् ।
___५९ उपाश्रयाश्चारुतरा अनेके,
वाप्यश्च कूपा अतिमिष्ट-तोयाः । कियत्तटाकाः सतताऽम्बु-पूर्णा,
उद्यानमाला धनवज्जनानाम् ॥३३४॥ (युग्मम्) सत्पाठशाला विविधाऽस्त्यमुष्मिन्,
कन्याजनीयाऽपि च सा विशाला । श्रीमज्जनानां कति धर्मशाला,
गोरक्षिणीत्यादि-विशेष-संस्था ॥३३५॥ वसन्ततिलका - ईदृग्-विशाल-नगरे वडपूर्वकेऽसौ,
श्रीमानतुच्छ-मतिमान् करणैक-सिन्धुः । जैनेस्तदन्य-सुजनैरपि मण्डितायां,
पर्षद्यनल्प-महिमा समुपादिदेश ॥३३६॥ प्रत्याहिकाऽमृत-समान-सुदेशनाभि
रोजस्विनीभि-रखिलाऽऽगम-सम्मताभिः । तीर्थङ्करोक्त-परमार्थ-निगूढतत्त्वप्रस्फोटिनीभि-रघनाशन-कारिणीभिः ॥३३७॥
(युग्मम्) सज्जैन-धर्म-विमुखीभवदार्हता ये,
तेऽप्याशु जात-कुधियं हृदयौकसो हि । निष्काश्य दुष्टवनितामिव लब्ध-बोधाः,
प्रापुः पुनर्जिन-सुभाषित-धर्म-दायम् ॥३३८॥