SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५७ गुरुकृतधर्मोपदेशः। मन्दकान्ता - धायं धायं सकल-सुजना गौरवाऽऽस्याच्छशाङ्का नि(नि)श्च्योतन्तीं निरुपम-महादेशना-सौधधाराम् । तष तर्प गुरुवरममुं सादरं संस्तुवन्तः, तत्त्वं धन॑ बुबुधुरधिकं श्रावकाः श्राविकास्ताः ॥३२३॥ उपजातिः - ततोऽतिहष्टाः सकलाश्च लोकाः, प्रभावनामाप्य गृहं प्रजग्मुः । गृणन्त उच्चैः सुगुरोरमुष्य, गुणानुदाराञ्जनतां पुनानान् ॥३२४॥ हेतोः कुतश्चिन्नगरे च तस्मिन्, विलोक्य लोकान् कियतो जिहासून् । सज्जैनधर्मं पुरि लोकमान्यौ, ___ जेठाख्य-सच्छेष्ठि-सुपुत्र एषः ॥३२५॥ नगीनदासो बहुधर्म-रागी, श्रीखेमचन्द्राऽऽत्मज-वीरचन्द्रः । तद्राजपूर्वं नगरं समेत्य, ___ व्यजिज्ञपेतां गुरुराजमेवम् ॥३२६॥ (युग्मम्) स्वामिन् ! कियन्तः पुरि मे हि जैना, भवन्ति धर्माद्विमुखा इदानीम् । अतः प्रभो ! तद्दिशि तूर्णमेव, कृत्वा विहारं परिपाहि धर्मम् ॥३२७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy