SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् व्याख्यानमारब्ध घनप्रणादाऽ- - नुकारि-विस्पष्ट-सुमिष्ट-वाचा । भव्याः ! समस्ताः शृणुतैकचित्ताः, श्रीवीतरागोदित-शुद्ध-धर्मम् ॥३१८॥ (युग्मम् ) पृथ्वीछंदः - स एव भववारको निरघ-धर्म आभाषितो, न यत्र परिहिंसनं भवति देहिनां जात्वपि । मनो-वचन-कायतः स्ववति-तानजस्रं जनः, स एष परिषेव्यताममृतसौख्यदायी महान् ॥३१९॥ अमुं य इह सेवते त्यजति तं न विष्णुप्रिया, सुखी भवति सर्वदा व्रजति नैव दुःखं हि सः । विभाति शशि-निर्मला जगति तस्य कीर्तिः परा, क्रमेण सुखमक्षयं परमदुर्लभं याति सः ॥३२०॥ नरत्वमिह दुर्लभं चतुरशीतिलक्षेषु वै, भगेषु तटिनीपतौ पतित-रत्नवत्पाणितः । तदाप्य बहुभाग्यतः परम-जैन-धर्मे रति, प्रपद्य भवसागरं तरत भव्य-जीवा ध्रुवम् ॥३२१॥ विपत्तिरपि सम्पदीभवति चाऽत्र धर्मात्मना मरातिरपि मित्रतां ध्रुवमियति वैश्वानरः । शशाङ्क इव शीतलीभवति तत्प्रभावादरं श्रियं धनपतेरहो जगति सम्पनीपद्यते ॥३२२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy