________________
चरित्रनेतुर्वडनगरगमनम् । मालिनी - रस-शर-नव-भूमी-हायने (१९५६) विक्रमीये,
सगुरु-विहरमाणस्तत्पुरः सूत्सवेन । अचिर-मय-मनीहो निधुताऽशेष-पापो,
वडनगरमथाऽऽगान्निष्कषायी कृतात्मा ॥३१३॥ पञ्चचामरम् - समागतं गुरुं परं समेऽवगत्य तत्क्षणं,
सुनागरा महाजना वधूजनैः समं मुदा । सुतोरणाऽऽदि-बन्धनैः सुशोभ्य सत्पथाऽऽदिकं,
नदत्सुबेण्डशङ्खकाहलाऽऽदिनैक-वादनैः ॥३१४॥ जयध्वनि समुच्चकैः समुच्चरद्भिरार्हतै
नभः-स्पृशैः सुकेतनैः स्फुरत्सुचित्र-सत्पटैः । सुवृत्त-पीन-कर्कश-स्तनाऽतिहारि-गायनैविरच्य चारुमुत्सवं पुरं स्वकं ह्यवीविशन् ॥३१५॥
(युग्मम्) उपजातिः - भक्त्या च केचिद्गुरुदर्शनाय,
प्रभावनालिप्सुतया च केचित् । श्रोतुं च धर्मं ह्यपरे समागु
राबाल-वृद्धाः पुरवासि-लोकाः ॥३१६॥ आबाल्य-सम्पालित-ब्रह्मचर्य
श्चरित्रनाथो मुनिनीतिनामा । इत्थं महाऽऽडम्बरतः प्रविश्य,
श्रीमद्गुरूणां वचनेन नुन्नः ॥३१७॥