________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षा-निशाः सर्वजनाऽऽग्रहेण,
व्यजीगमत् पोरपुरे सुखेन ॥२९८॥ वसन्ततिलका - पन्न्यासपूर्व-विजयोत्तर-भावनाम्नः,
श्रीमद्गुरोः क्रम-युगाऽम्बुजसेवमानः । सद्धीर-कान्तिविजयाऽऽदि-मुनीन्द्रयुक्तो,
व्यत्यैत्पयोद-दिवसानिह नायकोऽस्य ॥२९९॥ स्वागतावृत्तम् - संविहृत्य तत एष मुनीशो,
भव्य-जीवजनता-प्रतिबोधम् । सन्ददान इह चागत आशु,
राजपूर्व-नगरं रमणीयम् ॥३००॥ सर्व-सङ्घ-रचितैः कमनीयै
रुत्सवै-रमित-पौरजनौघेः । प्राविशद्वरपुरं कृतशोभं,
देशनामदित चारु-गिरा सः ॥३०१॥ तत्र संघ-विहिताऽऽग्रह-मित्वा,
तस्थिवान् सुचिर-कालमनंहाः ।। अङ्क-राम (३९) मित-सूत्रमपाठीत्,
शेमुषी-विषुलताऽऽदि-गुणाऽढ्यः ॥३०२॥ उपजातिः जैनाऽऽगम-ग्रन्थमियन्तमेष,
सम्वाच्य तत्सार-मशेषमेव ।