________________
पोपरपूरे गुरुणा कारितमुपधानम् । प्रावीवृतत्-सर्व-मनः-प्रसाद
माष्टाहिकं चारु-महोत्सवं सः । अत्युज्ज्वलं नित्य-मनेकधा हि,
प्रभावना-पूजन-गायनानि ॥२९३॥ शत्रुञ्जयो रैवतकोऽर्बुदाद्रिः,
समेत-पूर्वं शिखरं तथेति । अष्टापदं चाऽऽर्हत-पञ्चतीर्थी,
व्यरीरचत्कारुवरैरपूर्वाम् ॥२९४॥ आभ्यर्णिक-ग्राम-निवासिलोका,
वैदेशिकाऽऽहूत-जनाश्च सर्वे । सहस्त्र-षट्क-प्रमिताः समागु
दिक्षया तत्र महामहे हि ॥२९५॥ तेषां समभ्यागत-मानवानां,
दिनाऽष्टकं भोजनदित्सया हि। न्ययुङ्क्त चैकामुरु-पाकशालां,
तत्रत्य-संघः सकलो महीयान् ॥२९६॥ वीयाय मुद्रा अयुत-प्रमाणाः,
__ महोत्सवे चारुतरे च तस्मिन् । निर्विघ्नमेतत्सकलं बभूव,
श्रीमद्गुरूणां कृपया महत्या ॥२९७॥ इत्थं चरित्राऽधिपतिः सुविद्वान्,
चतुः-शराङ्क-क्षिति (१९५४) विक्रमाऽब्दे ।