________________
गुरोः पोरपुरगमनम्।
कृती सुधर्मा मगनादिलाल
___पुत्रो गुणी मोहनलालनामा ॥२८२॥ श्रीमन् ! गुरो ! त्वत्कृपया चिकीर्षु
रुद्यापनं साम्प्रतमस्मि चाऽहम् । अतोऽनुकम्पां मयि संविधाय, ,
मनोरथं मे परिपूरयाऽरम् ॥२८३॥ आयाहि सङ्गं सकलं पुनीहि,
विधेहि तत्रोचित-सर्वकृत्यम् । विभाविनी तत्र विशेषरीत्या,
श्रीपञ्चतीर्थ्या रचनाऽपि हृद्या ॥२८४॥ इत्थं मृदूक्त्या गुरुराजवर्यं,
विद्वत्तमं सद्गुणसन्निवासम् । अखण्ड-शील-प्रभयाऽतिदीप्रं,
व्यजिज्ञपद्भक्तिभरेण कामम् ॥२८५॥ विज्ञप्तितस्तस्य मुनीश्वरोऽय
मूर्जेऽसिते भूधरजा-सुतिथ्याम् । विहृत्य तस्मात्सह साधुवर्यैः,
पौराऽधिसीणं समुपाजगाम ॥२८६॥ वसन्ततिलका -
नानद्यमान-बहु-काहल-बेण्ड-शङ्ख
__ भेरी-मृदङ्ग-वर-झर्झर-काऽऽदिवाद्यैः । आकर्ण्य नागरजना गुरुराजमेतं ___ सुश्राविका-निवह-कोकिल-कण्ठ-गीतैः ॥२८७॥